________________
ओकेशोपकेशपदद्वयदशार्थी
।दि० ।। एँ नमः ।। श्रीगुरुभ्यो नमः ।। ओकेशशब्दस्यार्थाः लिख्यन्ते=
१. 'ईशिक् ऐश्वर्ये' [ओकेषु गृहेषु] ईष्टे पूज्यमाना सती या सा ओकेशा सत्यिका नाम्नी गोत्रदेवता। अत्र ओकशब्दो अकारान्तः। तस्यां भवस्तस्या अयमिति वा ओकेशः । भवे' [सिद्ध है. सूत्र ६.३.१२३] इति अण् प्रत्ययः । तस्येदम् [पा.सू. ६.३.१६०] इत्यनेन वा अण् प्रत्ययः । सत्यिकादेवी हि नवरात्रादिषु पर्वसु अस्मिन् गणे पूज्यते। सा च अस्य गणस्य अधिष्ठात्री। अत एवाऽस्य गच्छस्य ओकेश इति यथार्थं नाम प्रोच्यते सद्भिरिति प्रथमोऽर्थः ।। १।।
२. ईशनम् ईशः ऐश्वर्यम् ओकै:=महर्द्धिकश्राद्धप्रमुखलोकानां गृहै: ईशो यस्यां सा ओकेशा। ओसिकानगरी तत्र भव ओकेशः । ओसिकामगर्यां हि अस्य गणस्य ओकेश इति नाम श्रीरत्नप्रभसूरिसूरीश्वरतो विख्यातं जातम् । इति द्वितीयोऽर्थः ।। २।।
३. अ:-कृष्णः, उ:-शङ्करः, क: ब्रह्मा, एषां द्वन्द्वसमासे ओकास्ते ईशते-पूज्यमानाः सन्तो देवत्वेन मान्यमानाः सन्तश्च येभ्यस्ते ओकेशाः । ओकैः कृष्णशम्भुब्रह्मभिर्दैवैः ईशते ये ते वा ओकेशाः। परशासनजनाः क्षत्रियराजपुत्रादयः प्रतिबोधविधानात् तेषामयम् ओकेशः। तस्येदम् [सि.है.सू.६.३.१६०] इति अण् प्रत्ययः। श्रीरत्नप्रभसूरिभिस्तेषां पारतीर्थिकधर्मनिष्ठात: सिद्धान्तोक्तविशुद्धजैनधर्मनिष्ठायां प्रतिबोधदानेन प्रवर्तना कृता। तथा च श्रूयते
पूर्वं हि श्रीरत्नप्रभसूरीणां गुरवः श्रीपार्थापत्यीयकेशिकुमारानगारसन्तानीयत्वेन विख्यातिमन्तो जगति जज्ञिरे। ततः प्राप्तसूरिमन्त्राः ससत्तन्त्राः रमणीयातिशयनिचयाः स्वकीयनिष्तुषशेमुषीप्राग्भारसम्भारावशतत्रिदशसूरयः श्रीमच्छ्रीरत्नप्रभसूरयः कियति गते काले विहरन्तः सन्तः श्रीओसिकानगाँ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org