________________
यामाता पद्यस्य अर्थपञ्चकम् यामाताममतामायामापरोक्षक्षरोपमा।
तारोनेगगनेरोतामक्षगक्षक्षगक्षम!।। १।। व्याख्या = हे अक्षगक्षक्षगक्षम अक्षाणि इन्द्रियाणि तेषु गच्छन्तीति अक्षगा: विषयास्तेषां क्षः संहारः, अपरं क्षग: सहारमार्गे मुक्तिमार्गः तत्र क्षम: समर्थः, हे सन्न्यासिन् ! उद्यमे त्वं तां मायाम् अर=आग्रहि। यामाता ऊन्यते न्यूनेक्षणादौ प्राप्ते तारा तार:=तारको न हि किञ्चिन्न्यूनं तस्य यस्य भगवती कृपां कुरुते । अपरं अपरमालक्ष्मी: परावाणी, अपरम् उक्षा वृषभेण क्षरति-वलति स उक्षक्षर:=महेशस्तस्य उप समीपे याति व्यक्तस्वरूपेत्यर्थः ।
श्लोकस्य प्रथमार्थः । १। यामाता आ इति अव्ययम्, 'आ वाक्ये मरणे' इत्यव्ययम् [ ] इति वचनात् वाक्यार्थे, अतो वाक्यं प्रथमं क्रियते। लक्ष्मी: पाणिग्रहणावसरे स्वराचार्यः कृष्णं प्रति व्यक्ति। अव्ययानाम् अनेकार्थत्वात्, आइति सम्बोधनार्थे वा। हे अहे= हे विष्णो! हे गगनेगक्षमा! हे आकाशे गमनसमर्थके गमने तारोने ताराभिरूना ताराविवर्जितः सकलगगनगमनसमर्थ इति, हे रो-हे विश्वस्कणरुः ! 'सूर्ये रक्षणेपि च' [ ] इति वचनात्। हे अक्षगक्षक्ष! अक्षा:=पाशकाः तेषु गच्छन्तीति ये ते अक्षगाः द्यूते व्यसनिनस्तेषां क्षेत्रेषु क्षयकारिवान्। क्ष राक्षसतुल्या राक्षसेक्षस्तथा क्षेत्रे इति वचनात्। तां लक्ष्मी यं प्रति ममतां मा अय मा गच्छताम् । का तां! मा अय मा गच्छताम्, का या अपरोक्षक्षरोपमा, अपरोक्षाणि क्षराणि=चलानि उपमानानि यस्याः सा तथा अमाता द्वितीथेऽर्थेऽपि।
इति द्वितीयोऽर्थः यामाता ममतामाया अथवा प्रद्युम्न: सूर्यं प्रति वक्ति= हे रौ! सूर्य, हे अक्षग!= हे इन्द्रियगम्य, हे क्षक्ष! क्षेषु क्षेत्रेषु अतोयादिना क्षेयकारित्वात् क्ष राक्षसमुल्पतां तां लक्ष्मी मा आया मा गच्छ। असूर्यपश्या राजदारा: अनोहेत्ये या ममता माता तथा परोक्षक्षरोपमा परोक्षाणि=बलानि उपमानानि यस्याः सा एतावता निःशूलपतिव्रताः । शेषं पूर्ववत् ।
तृतीयोऽयमर्थः ।३। यामाता० अत्र गुरुः शिष्यं वक्ति=
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org