________________
10
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः
श्रीभानुमेरुवाचक-जीवकलश-कनककलशनामानः । समजायन्त महान्तस्तेषां पट्टे क्रमेणैतै॥ ११ ॥ श्रीभक्तिलाभपाठकशिष्याश्चारित्रसारनामानः । वेदेन्दुसङ्ख्याविद्यापारीणाः पाठका आसन्॥ १२ ॥ सिद्धान्तानुगतक्रियालयलसत्सम्प्राप्तशोभोदया, दुर्मिथ्यात्वमतोत्कटोत्पलवनव्याघातसूर्योदयाः । तत्पट्टे विलसज्जगजनितमुच्चारित्रलक्ष्मीधराः, . श्रीमद्वाचक-भानुमेरुगुरवो धात्र्यां विरेजुश्चिरम् ॥ १३ ।। वेदग्रन्थविदन्यशास्त्रजडधीर्नारायणोऽयं पुनर्विज्ञायेति सरस्वती भगवती सम्यग्गुणान्वेषिणी। . सार्द्धं यन्मुखपङ्कजेऽखिलगुणैः किं लालसीति वसत्, तर्कव्याकरणाद्यनेककठिनग्रन्थावलीपाठकाः ॥ १४ ॥ जगन्द्वन्द्यास्तेजोपति हि सततं पाठकवरा, इदानीं तच्छिष्या मुनिवरगुणा ज्ञानविमलाः । यश:शीतज्योतिर्धवलितलसत्क्षोणिवलयाः, स्फुरत्तेजःपुञ्जग्रहपुषमुषः पुण्यवपुषः ॥ १५ ॥
युग्मम्॥ तत्सतीर्थ्या विराजन्ते तेजोरङ्गगणीश्वराः । साम्प्रतं स्थविरा नित्यं तपोजपपरायणाः ॥ १६ ॥ श्रीज्ञानसुन्दरसुधी-जयवल्लभाद्या, शिष्या जयन्ति च भुविप्रथितावदाताः। . विद्वत्तमा वरगुणाः सुवचस्विनश्च, तेषां स्फुरद्गुणमणिप्रवरोदधीनाम्॥१७॥ तेषां विख्यातकीर्तीनां गुरुणामन्तिषदाणुना। कृता श्रीवल्लभेनेयं शेषसङ्ग्रहदीपिका॥१८॥
शेषसङ्ग्रहदीपिका-प्रशस्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org