________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्-श्रीतत्त्वार्थाधिगमसूत्रम् ।
३७
२५. वाचनापृच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः । २६. बाह्याभ्यन्तरोपध्योः । २७. उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् । २८. आमुहूर्तात्। २९. आर्तरौद्रधर्मशुक्लानि । ३०. परे मोक्षहेतू । ३१. आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः । ३२. वेदनायाश्च । ३३. विपरीतं मनोज्ञानाम् । ३४. निदानं च। ३५. तदविरतदेशविरतप्रमत्तसंयतानाम् । ३६. हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः । ३७. आज्ञाऽपाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य । ३८. उपशान्तक्षीणकषाययोश्च । ३९. शुक्ले चाद्ये (पूर्वविदः)। ४०. परे केवलिनः ।। ४१. पृथक्त्वैकत्ववितर्क सूक्ष्मक्रियाऽप्रतिपातिव्युपरतक्रियानिवृत्तीनि । ४२. तत् त्र्यैककाययोगायोगानाम् । ४३. एकाश्रये सवितर्के पूर्वे । ४४. अविचारं द्वितीयम्। ४५. वितर्कः श्रुतम् । ४६. विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः । ४७. सम्यग्दृष्टि-श्रावक-विरता-नन्तवियोजक-दर्शन-मोहक्षपकोपश
मकोपशान्तमोहक्षपक-क्षीणमोह-जिनाः क्रमशोऽसंख्येय-गुणनिर्जराः । ४८. पुलाक-बकुश-कुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः। ४९. संयम-श्रुतप्रतिसेवना-तीर्थ-लिङ्ग-लेश्योपपात-स्थानविकल्पतः साध्याः।
अथ दशमोऽध्यायः १. मोहक्षयाद् ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् । २. बन्धहेत्वभावनिर्जराभ्याम् । Personal & Private Use Only
www.jainelibrary.org