________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्-श्रीतत्त्वार्थाधिगमसूत्रम्
३. तपसा निर्जरा च । ४. सम्यग्योगनिग्रहो गुप्तिः। ५. ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः। ६. उत्तमः क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाञ्चिन्यब्रह्मचर्याणि
धर्मः। ७. अनित्याशरणसंसारैकत्वान्यत्वाशुचित्वात्रवसंवरनिर्जरालोकबोधि
दुर्लभधर्मस्वाख्याततत्त्वानुचिन्तनमनुप्रेक्षाः । ८. मार्गाच्यवननिर्जरार्थं परिषोढव्याः परिषहाः। ९. क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्या शय्याऽऽ
क्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽ
ज्ञानदर्शनानि। १०. सूक्ष्मसंपरायच्छास्थवीतरागयोश्चतुर्दश। ११. एकादश जिने। १२. बादरसंपराये सर्वे । १३. ज्ञानावरणे प्रज्ञाऽज्ञाने। १४. दर्शनमोहान्तराययोरदर्शनालाभौ । १५. चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याऽऽक्रोशयाचनासत्कारपुरस्काराः । १६. वेदनीये शेषाः । १७. एकादयो भाज्या युगपदेकोनविंशतेः । १८. सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसंपराययथाख्याता
चारित्रम्। १९. अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासन
कायक्लेशा बाह्यं तपः। २०. प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-व्युत्सर्ग-ध्यानान्युत्तरम् । २१. नवचतुर्दशपञ्चद्वित्रिभेदं यथाक्रमं प्राग्ध्यानात् । २२. आलोचन-प्रतिक्रमण-तदुभयविवेक-व्युत्सर्ग-तपश्छेद-परिहारो
पस्थापनानि। १३. ज्ञानदर्शनचारित्रोपचाराः। २४. आचार्योपाध्याय-तपस्वि-शैक्षक-ग्लान-गण-कुल-संघ-सा dain Edu समनोज्ञानाम्।
For Personal & Private Use Only
www.jainelibrary.org