________________
विभाग-२, लघुषड्दर्शनसमुच्चयः
३०१
(३) प्राचीनोऽज्ञातकर्तृको लघुषड्दर्शनसमुञ्चयः । जैनं नैयायिकं बौद्धं, काणादं जैमनीयकम् । साङ्खयं षड्दर्शनीयं, [च] नास्तिकीयं तु सप्तमम् ।।१।। जैनदर्शने अर्हन् देवता, जीवाजीवौ तथा पुण्यं, पापमाश्रवसंवरौ ।
बन्धो विनिर्जरा मोक्षो, नव तत्त्वानि तन्मते ।। प्रत्यक्षं परोक्षं चेति प्रमाणद्वयम्, नित्यानित्याद्यनेकान्तवादः, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, सकलकर्मक्षये नित्यज्ञानानन्दमयश्च मोक्षः । ।
नैयायिकाः पाशुपता जटाधरविशेषाः । तेषां दर्शने ईश्वरो देवता, प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानि षोडश तत्त्वानि, प्रत्यक्षमनुमानमुपमानमागमश्चेति चत्वारि प्रमाणानि, नित्यानित्यैकान्तवादः, आत्मादिप्रमेयतत्त्वं, ज्ञानं मोक्षमार्गः, षडिन्द्रियाणि, षड् विषयाः, षड् बुद्धयः, सुखं, दुःखं, शरीरं चेत्येकविंशतिः(ति) प्रतिभेदभिन्नस्य दुःखस्यात्यन्तोच्छेदश्च मोक्षः ।
बौद्धा रक्तपटा भिक्षुकाः । तेषां दर्शने बुद्धो देवता, दुःखसमुदयमार्गनिरोधरुपाणि आर्यसत्यसंज्ञानि चत्वारि तत्त्वानि, प्रत्यक्षमनुमानं चेति द्वे प्रमाणे, क्षणिकैकान्तवादः, सर्वक्षणिकत्वसर्वनैरात्म(त्म्य)वासना मोक्षमार्गः [स] वासन(ना) क्लेश(स)मुच्छेदे प्रदीपस्येव ज्ञानसन्तानस्योच्छेदश्च मोक्षः ।
कणादस्य चाचार्यस्येदं काणादं जटाधरविशेषवैशेषिकदर्शनम् । तत्र ईश्वरो देवता, द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानि षट् तत्त्वानि, प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम्, नित्यानित्यैकान्तवादः, आत्मनः श्रवणमनननिद(दि)ध्यासनसाक्षात्कारो मोक्षमार्गः, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानां विशेषगुणानामत्यन्तोच्छेदः मोक्षः । - जैमनीयं भट्टदर्शनम् । तत्र सर्वज्ञो देवता नास्ति किन्तु नित्यवेदवाक्येभ्य एव तत्त्वनिश्चयः, प्रत्यक्षमनुमानमुपमानमागमोऽर्थापत्तिरभावश्चेति षट् प्रमाणानि, नित्याद्य(द्वै)नेकान्तवादः, वेदविहितानुष्ठानं मोक्षमार्गः, नित्यनिरतिशयसुखाविर्भावश्च मोक्षः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org