________________
३००
विभाग-२, षड्दर्शनसमुच्चयावचूर्णि
तस्मादिति पूर्वोक्तानुस्मरणपूर्वकं दृष्टपरित्यागात् प्रत्यक्षसुखत्यागात् अदृष्टे [तपश्चरणादिकष्टे] प्रवृत्तिः । चः समुच्चये । तल्लोकस्य विमूढत्वं चार्वाकाः प्रतिपेदिरे । प्रतिज्ञातवन्तः ।।८५ ।।
साध्यस्य मनीषितस्य कस्यचिद्वस्तुनो वृत्तिः प्राप्तिः अनभीष्टस्य निवृत्तिरभावः ताभ्यां जने या प्रीतिरुत्पद्यते सा तेषां चार्वाकाणां निरर्था शून्या। पूर्वभवार्जितपुण्यपापाभावात् सा च प्रीतिराकाशरूपा शून्येत्यर्थः । धर्मस्य कामादन्यस्याभावात् ।।८६।।
एवं लोकायितमतसंक्षेपः कथितः । एतं षड्दर्शनविकल्पे सति अभिधेयतात्पर्यार्थः मुक्त्यङ्गतत्त्वसारार्थः चिन्तनीयः बुद्धिमद्भिः ।।८७ ।।
।। इति षड्दर्शनसमुच्चयावचूर्णिः समाप्ता ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org