________________
विभाग-२, षड्दर्शन समुञ्चय, लघुवृत्तिः
२३७
भवेत् । यथा काकेत्यादि । दूराद्-दृग्गोचरे स्पष्टप्रतिभासाभावात् किमयं स्थाणुर्वा पुरुषो वेति संशयस्तस्योपरमेऽभावे सति तर्को भवेत् तर्को नाम तत्त्वं स्यात् । कथमित्याह - यथेति । दूरादूर्ध्वस्थं पदार्थं विलोक्य स्थाणुपुरुषयोः संदिहानोऽवहितीभूय विमृशति । काकादिसंपातादादिशब्दाद्वल्ल्युत्सर्पणादयः स्थाणुधर्मा ग्राह्याः । वायसप्रभृतिसंबन्धादत्र स्थाणुना भाव्यं कीलकेन भवितव्यम् । पुरुषे हि शिरःकम्पनहस्तचालनादिभिः काकपातानुपपत्तेः । एवं संशयाभावे तर्कतत्त्वं ज्ञेयमिति । ऊर्ध्वमित्यादि पूर्वोक्तलक्षणाभ्यां संदेहतर्काभ्यामूर्ध्वमुत्तरं यः प्रत्ययः, स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयः, स निर्णयः निर्णयनामा तत्त्वविशेषो ज्ञेयः । यत्तदावर्थसंबन्धादनुक्तावपि ज्ञेयौ ।।२७-२८ ।। वादतत्त्वमाह - (मू. श्लो.) आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् ।
यः कथाभ्यासहेतुः स्यादसौ वाद उदाहृतः ।।२९।। असौ वाद उदाहृतः कथितस्तज्ज्ञैरित्यर्थः । यः कः । इत्याह - कथाभ्यासहेतुः। कथा प्रामाणिकी तस्या अभ्यासहेतुः कारणम् । कयोः आचार्यशिष्ययोः । आचार्यो गुरुरध्यापकः, शिष्यश्चाध्येता विज्ञेय इति । कस्मात् । पक्षप्रतिपक्षपरिग्रहात् । पक्षः पूर्वपक्षः प्रतिज्ञादिपरिग्रहः, प्रतिपक्ष उत्तरपक्षः पूर्वपक्षवादिप्रयुक्तप्रतिज्ञादिप्रतिपन्थिकोपन्यासप्रौढिः तयोः परिग्रहात्संग्रहादित्यर्थः । आचार्यः पूर्वपक्षमङ्गीकृत्याचष्टे । शिष्यश्चोत्तरपक्षमुररीकृत्य पूर्वपक्षं खण्डयति । एवं निग्राहकजयपराजयच्छलजात्यादिनिरपेक्षतया अभ्यासनिमित्तम् । पक्षप्रतिपक्षपरिग्रहेण यत्र गुरुशिष्यौ गोष्ठी कुरुतः स वादो ज्ञेयः ।।२९।।
अथ तद्विशेषमाह - (मू. श्लो.) विजिगीषुकथायां तु छलजात्यादिदूषणम् ।
स जल्प: सा वितण्डा तु या प्रतिपक्षविवर्जिता ।।३०।। स जल्प इति संबन्धः । यत् तु विजिगीषुकथायां विजयाभिलाषिवादिप्रतिवादिप्रारब्धप्रमाणोपन्यासगोष्ठयां सत्यां छलजात्यादिदूषणम् । छलं त्रिप्रकारम् - वाक्छलं, सामान्यच्छलम्, उपचारच्छलं चेति, जातयश्चतु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org