________________
विभाग- २, षड्दर्शन समुचय, लघुवृत्तिः
अर्थित्वात्प्राणी साध्यं कार्यं प्रति प्रवर्तते । प्रतीत्यध्याहार्यम् । न हि निष्फलकार्यारम्भ' इत्यर्थित्वादुक्तम् । एवं यत्प्रवर्तनं तत्प्रयोजनमित्यर्थः ।। २५ । ( मू. श्लो.) दृष्टान्तस्तु भवेदेष विवादविषयो न यः । सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ।। २६ ।
I
व्याख्या - तु पुनरेष दृष्टान्तो नाम तत्त्वं भवेत् । यत्किमिति । विवादविषयो न यः यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति । इदमित्थं भवति न वेति विवादो न भवतीत्यर्थः । तावच्चान्वयव्यतिरेकयुक्तोऽर्थः स्खलति यावन्न स्पष्टं दृष्टान्तोपष्टम्भः । उक्तं च
-
२३६
" तावदेव चलत्यर्थो मन्तुर्गोचरमागतः । यावन्नोत्तम्भनेनैव दृष्टान्तेनावलम्ब्यते ।। "
एष दृष्टान्तो ज्ञेयः ।
सिद्धान्तः पुनश्चतुर्भेदो भवेत् । कथमित्याह सर्वतन्त्रादिभेदत इति । सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः । आदिशब्दाद्भेदत्रयमिदं ज्ञेयम् । यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति । अमी चत्वारः सिद्धान्तभेदाः । नाममात्रकथनमिदम्, विस्तरग्रन्येभ्यस्तु विशेषो ज्ञेयः ।। २६ ।।
अवयवादितत्त्वत्रयस्वरूपमाह
-
( मू. श्लो.) प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा ।
अवयवाः पञ्च तर्कः संशयोपरमो भवेत् ।। २७ ।। यथा काकादिसंपातात् स्थाणुना भाव्यमत्र हि । ऊर्ध्वं संदेहतर्काभ्यां प्रत्ययो निर्णयो मतः ।। २८ ।।
अवयवाः पञ्चेति संबन्धः । पूर्वार्द्धमाह प्रतिज्ञाहेतुदृष्टान्तोपनया निगमनं चेति पञ्चावयवाः । तत्र प्रतिज्ञा पक्षः, कृशानुमानयं सानुमानित्यादि । हेतुर्लिङ्गवचनम्, धूमवत्त्वादित्यादि । दृष्टान्त उदाहरणवचनम्, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेश इत्यादि । उपनयो हेतोरुपसंहारकं वचनम्, धूमवांश्चायमित्यादि । निगमनं हेतूपदेशेन पुनः साध्यधर्मोपसंहरणं तस्माद्वह्निमानित्यादि । इति पञ्चावयवस्वरूपनिरूपणम् इति अवयवतत्त्वं ज्ञेयमिति । तर्कः संशयोपरमो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
-