________________
विभाग-२, षड्दर्शन समुञ्चय, लघुवृत्तिः
२३३
व्यपदेशविवर्जितमिति । व्यपदेशो विपर्ययस्तेन रहितम् । तथाहि . आजन्मकाचकामलादिदोषदूषितचक्षुषः पुरुषस्य धवलशो पीतज्ञानमुदेति तद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रियार्थसंनिकर्षोत्पन्नमस्ति तथाप्यन्यवस्तुनोऽन्यथाबोधान्न तद्यथोक्तलक्षणं प्रत्यक्षमिति प्रत्यक्षसाधकं विशेषणचतुष्टयमुक्तम् ।
साम्प्रतमनुमानमाह । इतरदन्यन्मानमनुमानमुपदिशति तदनुमानं पूर्वं प्रथम त्रिविधं त्रिप्रकारकं भवेज्जायेत । पूर्वमितिपदेनानुमानान्तरभेदानन्त्यमाह । तत्पूर्वं प्रत्यक्षपूर्वं चेति श्लोकद्वयार्थः ।।१७-१८ ।।
अनुमानत्रैविध्यमाह - (मू. श्लो.) पूर्ववच्छेषवञ्चैव दृष्टं सामान्यस्तथा ।
___ तत्राद्यं कारणात्कार्यमनुमानमिह गीयते ।।१९।। पूर्ववत् शेषवत् सामान्यतोदृष्टं चेत्यनुमानत्रयम् । चः समुच्चये । एवेति पूरणार्थे । तथेति उपदर्शने । तत्र त्रिषु मध्ये, आद्यमनुमानमिह शास्त्रे कारणात्कार्यमनुमानमुदितं कारणान्मघात् कार्यं वृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्य नामानुमानं कथितमित्यर्थः ।।१९।।
निदर्शनेन तमेवार्थं द्रढयन्नाह यथा - (मू. श्लो.) रोलम्बगवलव्यालतमालमलिनत्विषः ।
__वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ।।२०।। यथेति दृष्टान्तकथारम्भे । रोलम्बाः भ्रमराः, गवलं माहिषं श्रृङ्गम्, व्याला गजाः, सर्पा वा, तमाला वृक्षविशेषाः, सर्वेऽप्यमी कृष्णाः पदार्थाः स्वभावतो ज्ञेयाः । द्वन्द्वसमासो बहुव्रीहिश्च । एवंप्राया एवंविधाः पयोमुचो मेघा वृष्टिं न व्यभिचरन्तीति। एवंप्राया इत्युपलक्षणेन परेऽपि वृष्टिहेतवोऽभ्युन्नत्यादि विशेषा ज्ञेयाः । यदुक्तम् -
“गम्भीरगर्जितारम्भनिर्भित्रगिरिगह्वराः ।" तुङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ।” (न्याय म०) इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ।।२०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org