________________
२३२
विभाग-२, षड्दर्शन समुञ्चय, लघुवृत्तिः
छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निश्रेयसिद्धिरिति (न्यायसूत्र-१.१.१) इति षोडश । एषामेवं प्ररूपणेति - तत्त्वानामेवम् अमुना प्रकारेण प्ररूपणा नाममात्रप्रकटनमित्यर्थः ।
अथैकैकस्वरूपमाह । तत्रादौ प्रमाणस्वरूपं प्रकटयन्नाह - अर्थोपलब्धिहेतुः प्रमाणं स्यात् । अर्थस्य पदार्थस्योपलब्धि-ज्ञानं तस्य हेतुः कारणं प्रमाणं स्याद् भवेत् । परापरदर्शनापेक्षया प्रमाणानामनियतत्वात्संदिहानस्य संख्यामुपदिशन्नाहतञ्चतुर्विधमिति । तत्प्रमाणं चतुर्विधं ज्ञेयमिति ।।१४-१६।। (मू. श्लो.) प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा ।
तत्रेन्द्रियार्थसंनिकर्षोत्पन्नमव्यभिचारिकम् ।।१७।। व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् ।
प्रत्यक्षमितरन्मानं तत्पूर्वं त्रिविधं भवेत् ।।१८।। व्याख्या - प्रमाणनामानि निगदसिद्धान्येव, केवलमुपमया सह इत्युपमानं । अथ प्रत्यक्षानुमानस्वरूपमाह तत्र प्रमाणचातुर्विध्ये प्रत्यक्षं कीदृगिति संबन्धः । विशेषणान्याह - इन्द्रियार्थसंनिकर्षोत्पन्नमिति । इन्द्रियं चार्थश्चेति द्वन्द्वः, तयोः संनिकर्षात्संयोगादुत्पन्नं जातम् । इन्द्रियं हि नैकट्यात् पदार्थे संयुज्यते । इन्द्रियार्थसंयोगाज्ञानमुत्पद्यते । यदुक्तम् -
"आत्मा सहैति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एषः शीघ्रम् । योगोऽयमेव मनसः किमगम्यमस्ति
यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ।।" [ ] तत्राव्यभिचारिकं ज्ञानान्तरेण नान्यथाभावि । शुक्तिशकले कलधौतबोधो हीन्द्रियार्थसंनिकर्षोत्पन्नोऽपि व्यभिचारी दृष्टोऽतोऽव्यभिचारिकं ग्राह्यम् । तथा व्यवसायात्मकं व्यवहारसाधकम् । सजलधरणितले हि बहलशावलवृक्षावल्यामिन्द्रियार्थसांनिध्योद्गतमपि जलज्ञानं तत्प्रदेशसंगमेऽपि स्नानपानादिव्यवहारासाधकत्वादप्रमाणम् । अतः सफलं व्यवसायात्मकमिति विशेषणम् । तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org