SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ अ०८ / विस्तृत सन्दर्भ कुन्दकुन्द के प्रथमतः भट्टारक होने की कथा मनगढन्त / १७५ ४ श्रवणबेलगोल - महानवमी मण्डप के एक स्तम्भ पर उत्कीर्ण नन्दिसंघ की पट्टावली, लेख क्र० ४० (६४), शक सं० १०८५ (दक्षिणमुख) ततः॥ Jain Education International भद्रं भूयाज्जिनेन्द्राणां शासनायाघनाशिने । कुतीर्थ-ध्वान्त-सङ्घात-प्रभिन्न- घनभावने ॥ १ ॥ श्रीमन्नाभेयनाथाद्यमलजिनवरानीकसौधोरुवार्द्धिः प्रध्वस्ताघप्रमेयप्रचयविषयकैवल्यबोधोरुवेदिः । शस्तस्यात्कारमुद्रा-शवलित- जनतानन्दनादोरुघोषः स्थेयादाचन्द्रतारं परमसुखमहावीर्य्यवीचोनिकायः ॥ २॥ श्रीमन्मुनीन्द्रोत्तमरत्नवर्गाः श्रीगौतमाद्याः प्रभविष्णवस्ते । तत्राम्बुधौ सप्तमहर्द्धियुक्तास्तत्सन्ततौ बोधनिधिर्बभूव ॥ ३ ॥ (श्री) भद्रस्सर्व्वतो यो हि भद्रबाहुरिति श्रुतः । श्रुतकेवलिनाथेषु चरमः परमो मुनिः ॥ ४ ॥ चन्द्रप्रकाशोज्ज्वलसान्द्रकीर्तिः श्रीचन्द्रगुप्तोऽजनि तस्य शिष्यः । प्रभावाद्वनदेवताभिराराधितः स्वस्य गणो मुनीनां ॥ ५॥ तस्यान्वये भू-विदिते बभूव यः पद्मनन्दिप्रथमाभिधानः । श्रीकोण्डकुन्दादिमुनीश्वराख्यस्सत्संयमादुद्गत- चारणर्द्धिः ॥ ६॥ यस्य अभूदुमास्वाति-मुनीश्वरोऽसावाचार्य्य-शब्दोत्तर-गृद्धपिच्छः । तदन्वये तत्सदृशोऽस्ति नान्यस्तात्कालिकाशेषपदार्थवेदी ॥ ७॥ श्रीगृध्रपिच्छमुनिपस्य बलाकपिच्छः शिष्योऽजनिष्ट-भुवनत्रयवर्त्ति - कीर्तिः । चारित्र - चञ्चुरखिलावनिपाल - मौलिमाला - शिलीमुख-विराजित - पादपद्मः ॥ ८ ॥ एवं महाचार्य्यपरम्परायां स्यात्कारमुद्राङ्किततत्त्वदीपः । भद्रस्समन्ताद्गुणतो गणीशस्समन्तभद्रोऽजनिवादिसिंहः ॥ ९॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004043
Book TitleJain Parampara aur Yapaniya Sangh Part 02
Original Sutra AuthorN/A
AuthorRatanchand Jain
PublisherSarvoday Jain Vidyapith Agra
Publication Year2009
Total Pages900
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy