________________
१७२ / जैनपरम्परा और यापनीयसंघ / खण्ड २
अ०८/ विस्तृत सन्दर्भ क्षिप्ताशन्तर्कवेत्ता शुभतरवचनः सर्वलोकस्थितिज्ञः। .. श्रीमानीषः कृतज्ञो जयति जगति सः श्रीगुणाद्यन्तकीर्तिः॥ ४२॥ तत्पट्ट-पङ्कज-विकाशनपद्मबन्धुर्जीयात्कुवादि-मुखकैरवपद्मबन्धुः। कान्त्या क्षमा तिमिरनाशनपद्मबन्धुः श्रीवादिभूषण-गुरुर्जित-पद्मबन्धुः॥ ४३॥ यो नानागमशब्दतर्कनिपुणो जैनैर्नृपैः पूजितः कर्णाटे कलिकालगौतमसमो भट्टारकाधीश्वरः। हेयाहेयविचारबुद्धिकलितो रत्नत्रयालंकृतः सः श्रीमान् शुभचन्द्रवद्धि श्रयते श्रीवादिभूष्यो गुरुः॥ ४४ ॥ तत्पट्टपुष्पंकर-भासन-मित्र-मूर्तिः कुज्ञान-पङ्क-परिशोषण-मित्र-मूर्तिः। निःशेष-भव्य-हृदयाम्बुजमित्रमूर्तिः भट्टारको जगति भाति सुरामकीर्तिः॥ ४५ ॥ स्याद्वादन्यायवेदी हतकुमतिमदस्त्यक्तदोषो गुणाब्धिः श्रीमच्चिद्रूपवेत्ता विमलतरसुवाक् दिव्यमूर्तिः सुकीर्तिः। साक्षाच्छ्रीशारदायाः गच्छपतिगरिमा भूपवन्द्यो गुणज्ञः पायाद्भट्टारकोऽसौ सकलसुखकरो रामकीर्तिर्गणेन्द्रः॥ ४६॥ शास्त्राभ्यासनिबन्धनादिषु पटुः रामादिकीर्तिस्ततस्ततपट्टे यशकीर्तिनाम सततं विभ्राजते धर्मभाक्। ध्यानाभ्यासकरः सुनिर्मलमनास्तर्कादिकाव्यामृतः भव्यानां प्रतिबोधनार्थनिपुणः स र्वकलायां रतः॥ ४७ ॥ तत्पट्टपङ्कज-विकाशनभानुमूर्तिविद्याविभूषितसमन्वितबोधचन्द्रः। स्याद्वादशास्त्र-परितोषितसर्वभूपो भट्टारकः समभवद्यशपूर्वकीर्तिः॥ ४८॥ तत्पट्टवारिज-विकाशनतिग्मरश्मिः पापानबोधतिमिर-क्षय-तिग्मरश्मिः पायात्सुभव्यभर-पद्मसुतिग्मरश्मिः श्रीपद्मनन्दिमुनिपो जिततिग्मरश्मिः॥ ४९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org