________________
९२६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैम लघुकीनाशो यमश्चैव' ॥ ५३४ ॥ कुलिकनिकणिपलिवडिभ्यः किशः (५३५) कित् इशः। कुल कुलिशं वज्रम् । कनै, कण, कनिशं कणिशं च सस्यमञ्जरी । पल पलिशं यत्र स्थित्वा मृगा व्यापाद्यन्ते । 'वड आग्रहणे' सौत्रः । वडिशं मत्स्यग्रहणम् ॥५३५॥ बलेर्णिद्वा (५३६) किशः । बल, बालिशः मूर्खः । बलिशं बडिशम् ॥५३६ ॥ तिनिशेतिशादयः (५३७) किशान्ता ५निपात्यन्ते । तनेरिच्चातः तिनिशः वृक्षः । इणस्तोन्तश्च । इतिशः गोत्रकदृषिः । आदिग्रहणादन्येऽपि ॥५३७॥ मस्ज्यङ्किभ्यामुशः (५३८) टुमस्जोंत् । न्यंकादित्वाद्गत्वम् । मद्शः नकुलः । अकुङ्, अङ्कुशः सृणिः ॥५३८ ॥ अर्तीभ्यां पिशतशो (५३९) यथासङ्ख्यम् । ऋक् , अपिशमामांसं बालवत्साया दुग्धं च । इण्क्, एतशः अश्वः ऋषिः वायुः अग्निः अर्कश्च
॥५३९ ॥ इति शोपान्त्यास्त्रयोदशभिः सूत्रैः । वृकतमीङ्माभ्यः षः (५४०) वृग्ट, वर्षः भर्ता । १०वर्ष संवत्सरः । वर्षा ऋतुः । कृत् , कर्षः उन्मानविशेषः । तृ तर्षः प्लवः हर्षश्च । मींच् । मेषः उरभ्रः । मांक , माषः धान्यविशेषः हेमपरिमाणं च ॥५४०॥ योरूच्च वा (५४१) युक् , अस्मात्पः ऊकारश्चान्तादेशो वा स्यात् । यूषः पेयविशेषः । यूषा छाया । योषा स्त्री ॥ ५४१॥ स्नुपूसूम्वकलूभ्यः कित् (५४२) रुवादिभ्यः अर्कपूर्वाल्लुनातेश्च कित् षः स्यात् । स्नुक्, स्नुषा
पुत्रवधूः । पूग्श, पूषः पवनभाण्डम् शूर्पादिः । षूत् सूषः बलम् । मूङ् मूषा लोहक्षरण१५भाजनम् । लूग्श् , अर्कलूषः ऋषिः ॥ ५४२॥ श्लिषेः शे च (५४३) श्लिषंच, अस्मात् षः
शे इत्यादेशश्चास्य स्यात् । शेषः नागराजः ॥५४३ ॥ कोरषः (५४४) कुङ्, कवषः क्रोधी शब्दकारश्च ॥ ५४४॥ युजलेराषः (५४५) युक्, यवाषः दुरालभा । 'जल घात्ये' । जलाषः जलम् ॥ ५४५ ॥ अरिष: (५४६) ऋक्, इत्यस्माण्ण्यन्तादिषः प्रत्ययो भवति । अर्पिषमाईमांसम् ॥ ५४६ ॥ मद्यविभ्यां दित् (५४७) इषः । मह महिषः सैरिभः राजा च । महिषी २० राजपत्नी सैरिभी च । अव अविषः समुद्रः राजा पर्वतश्च । अविषी द्यौर्भूमिः, गङ्गा च ॥५४॥ रहेवृद्धिश्च (५४८) अस्मादिषः । वृद्धिश्चास्य स्यात् । रौहिषं तृणविशेषः अन्तरिक्षं च । रौहिषः मृगः । रौहिषी वात्या मृगी दूर्वा च ॥ ५४८ ॥ अमिमृभ्यां णित् (५४९) इषः । अम, आमिषं भक्ष्यम् । मृश् हिंसायाम् , मारिषः हिंस्रः ॥ ५४९ ॥ तवेर्वा (५५०) 'तव गतौ' ।
अस्मात्सौत्राटिदिषः स च णिद्वा स्यात् । ताविषः तविषश्च स्वर्गः । ताविषं तविषं २५ च बलं तेजश्च । ताविषी तविषी च वात्या देवकन्या च ॥ ५५० ॥ कलेः किल्व च
(५५१) कलि अस्माद्विदिषः अयं चास्यादेशः स्यात् । किल्विषं पापम् । किल्विषी वेश्या रात्रिः पिशाची च ॥ ५५१॥ नमो व्यथेः (५५२) टिदिषा । अव्यथिषः क्षेत्रज्ञः सूर्यः अग्निश्च । अव्यथिषी पृथिवी ॥५५२ ॥ कृतृभ्यामीषः (५५३) करीषः शुष्कगोमयरजः । तरीषः समर्थः स्तम्भः प्लवश्व ॥ ५५३॥ ऋजिपृभ्यः कित् (५५४) ईषः । 'ऋजि गत्यादौ । ऋजीपं धनम् । ३० ऋजीषः अवस्करः शश् शिरीषः वृक्षः । पृश् पुरीषं शकृत् ॥५५४॥ अमेव(ब)रादिः (५५५) ईषः । अम्बरीषं भ्राष्ट्रं व्योम च । अम्बरीषः आदिनृपः ॥५५५ ॥ उषेोन्तश्च (५५६) उषू अस्मादीषः णश्चास्यान्तादेशः स्यात् । उष्णीषः मुकुटं शिरोवेष्टनं च ॥ ५५६ ॥ ऋपूनहिहनिकलिचलिचपिवपिकृपिहयिभ्य उषः (५५७) । ऋश् । अरुषः व्रणः हयः आदित्यः वर्णः
रोषश्च । पृश् परुषः कर्कशः । णहींच नहुषः पूर्वो राजा । हनंक हनुषः क्रोधः राक्षसश्च । कलि ३५कलुषमप्रसन्नं पापं च । चल, चलुषः वायुः । चप, चपुषः शकुनिः । टुवपी वपुषः वर्णः । कृपौङ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org