________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९२७ कल्पुषः क्रियानुगुणः । 'हय क्लान्तौ च । हयुषा ओषधिः ॥५५७॥ विदिपभ्यां कित् (५५८) उषः । विदुषः विद्वान् । पुरुषः पुमाम् आत्मा च ॥ ५५८ ॥ अपुषधनुषादयः (५५९) उषान्ता निपात्यन्ते । आप्नोतेर्हखश्च । अपुषः अग्निः सरोगश्च । दधातेर्धन् च । धनुषः शैलः । आदिग्रहणात् लसुषः ऋषिः वृक्षश्च इत्यादयः ॥ ५५९ ॥ खलिफलिपकज़लम्बिमञ्जिपीयिहन्यनिमगिगण्ड्यर्तिभ्य ऊषः (५६०) 'खल संचये' खलूषः म्लेच्छजातिः । फलूषः५ बीरुत् । वृग्ट् वरूषः भाजनम् । पृश् परूषः वृक्षविशेषः । कृत् करूषाः जनपदः । ष् जरूषः आदित्यः । लबुङ् लम्बूषः नीरकदम्बः निचुलश्च । 'मञ्जिः शब्दे' 'पीयिश्च पाने' सौत्रौ । मञ्जषा काष्ठकोषः । पीयूषं प्रत्यग्रप्रसवक्षीरविकारः अमृतं घृतं च । हनंक हनूषः राक्षसः । अगु अगूषः शकुनिजातिः हस्ती बाणः वेगश्च । मगु मञ्जूषः जलचरशकुनिः । गण्डूषः द्रवकवलः । 'कं प्रापणे च' । अरूषः रविः ॥ ५६० ॥ कोरदूषाटरूषकारूषशैलूषपिञ्जूषादयः (५६१) १० ऊषान्ता निपात्यन्ते । कुरेरदोन्तश्च । कोरदूषः कोद्रवः। आटेररोन्तश्च । आटरूषः वासा । अटनं रूषतीति अटरूषः इति पृषोदरादिः । कृगो वृद्धिश्च । कारूषा जनपदः। शैलेरै चातः । शैलूषः नटः । 'पिजुण हिंसादौ' । पिञ्जूषः कर्णशष्कुल्याभोगः । आदिशब्दात् प्रत्यूषाभ्यूषादयः ॥ ५६१॥ कलेर्मषः (५६२) कल्मषं पापम् ॥ ५६२ ॥ कुलेश्च मासक् (५६३) कुल कलि आभ्यां किन्मासः स्यात् । कुल्माषः अर्धस्विन्नं माषादि । कल्माषः शबलः ॥ ५६३ ॥ इति षोपान्त्याश्चतुर्विंशत्या १५ सूत्रैः । मावावद्यमिकमिहनिमानिकष्यशिपचिमुचियजिवृतृभ्यः सः (५६४) मांक, मासः त्रिंशद्रात्रः । वांक वासा आटरूषकः । वद, वत्सः तर्णकः ऋषिः । प्रियस्य च पुत्रस्याख्यानम् । अम, अंसः भुजशिखरम् । कमूङ् कंसः लोहजातिः विष्णोः शत्रुः हिरण्यमानं च । हनंक , हंसः सितच्छदः । 'मानि पूजायाम्' मांसं तृतीयो धातुः । कष, कक्षः गहनारण्यं शरीरावयवश्च । अशौटि अक्षाः प्रासकाः । अक्षाणि इन्द्रियाणि रथचक्राणि च । डुपची , पक्षः अर्द्धमासः२० वर्गः शकुन्यवयवः सहायः साध्यं च । मुच्लती मोक्षः मुक्तिः । यजी, यक्षः गुह्यकः । वृगश् , वर्सः देशः समुद्रश्च । तृ-तर्सः वीतंसः सूर्यश्च । वर्सतर्सयोर्बाहुलकान्न षत्वम् ॥५६४ ॥ व्यवाभ्यां तनेरीच वेः (५६५) वि अव इत्येताभ्यां परात्तनोतेः स प्रत्ययः वेरीकारश्चान्तादेशो भवति । वीतंसः शकुन्यवरोधः । अवतंसः कर्णपूरः॥ ५६५ ॥ प्लुषेः प्लष् च (५६६) प्लवू पक्षं नक्षत्रम् । प्लक्षः वृक्षः॥ ५६६ ॥ ऋजिरिषिकुषिकृतिव्रश्चयुन्दिगृभ्यः कित् (५६७) २५ सः । ऋजि ऋक्षं नक्षत्रम् । ऋक्षः अच्छभल्लः । 'रिष हिंसायाम्' रिक्षा यूका । लत्वे लिक्षा सैव । कुषस् कुक्षः गर्भः । कुक्षं गतः । कृतैत् कृत्सः गोत्रकृत् ओदनं वक्र दुःखजातं च । ओव्रश्चौत् वृक्षः पादपः । उन्दैप उत्सः समुद्रः आकाशं जलं जलाशयश्च । उत्सं स्रोतः । शुश्, शीर्ष शिरः ॥ ५६७ ॥ गुधिगृधेस्त च (५६८) आभ्यां कित्सः तकारश्चान्तादेशोऽनयोः । गुधच्, गुत्सः रोषः तृणजातिश्च । गृधूच् गृत्सः विप्रः श्वा गृध्र अभिलाषश्च ।३० तकारविधानमादिचतुर्थत्वबाधनार्थम् ॥ ५६८ ॥ तप्यणिपन्यल्यविरधिनभिनम्यमिचमितमिचव्यतिपतेरसः (५६९) (असः) तपं तपसः आदित्यः पशुः धर्मः धर्मश्च । अण अणसः शकुनिः । पनि पनसः फलवृक्षः। अली अलसः निरुत्साहः । अव अवसः भानुः राजा च । अवसं चापं पाथेयम् । रधौच 'रध इटि तु परोक्षायाम्' (४।४।१०१) एवेति नागमे रन्धसः अन्धकजातिः । णभच, नभसः ऋतु: आकाशः समुद्रश्च । णमं नमसः वेत्रः प्रणामश्च । अम अमस:३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org