________________
प्रक्रिया वृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
1
च । यह्वा बुद्धिः । अस्यतेरलोपश्च । स्व आत्मा आत्मीयं ज्ञातिः धनं च । छयतेश्छिदेव छेभावश्च । छेवा उच्छित्तिः । ग्रन्थते गिरतेर्षा ग्रीभावश्च ग्रीवा । अमेरीञ्चान्तो दीर्घश्च वा । अमीवा बुभुक्षा | आमीवा व्याधिः । मिनोतेर्दीर्घश्च मीवा मनः उदकं च । तदेतत्रयमपि तत्रेणावृत्त्या वा निर्दिष्टम् । अवतेर्वलोपाभावश्च । अव्या माता | आदिशब्दात् वा शक्तिर्नामायुधं बुद्धिर्वा इत्यादयः ॥ ५१४ ॥ वडिवटिपेलचणिपणिपल्लिबल्लेरवः (५१५) 'वड आग्रहणे ' सौत्रः, ५ asar अश्वा । 'वट वेष्टने' वटवा सैव । पेट पेवनं निस्सारम् । चण चणवः अवरधान्यजातिः । पण पणवः वाद्यजाति: । 'पल्ल गतौ' पल्लवः किसलयम् । वल्लि, वल्लवः गोपजातिः || ५१५ ॥ मणिवर्णित (५१६) अव: । 'मण शब्दे' माणवः शिष्यः । वसं वासवः इन्द्रः ।। ५१६ ॥ मलेव (५१७) अवः । स च णिद्वा । मालवा जनपद: । मलवः दानवः ॥ ५१७ ॥ faतिकुडिकुरमुरिस्थाभ्यः कित् (५१८) अवः । 'कित निवासे' कितवः द्यूतकृत् । कुड १० कुडवः मानम् । लत्वे कुलवः स एव नाडीद्वयं च । कुरत् कुरवः पुष्पवृक्षजातिः । मुरत् मुरवः मानविशेषः वाद्यजातिश्च । ष्ठां स्थवः अजावृषः ॥ ५९८ ॥ कैरव भैरवमुतवकारण्डवादीनवादयः (५१९) अवान्ता निपात्यन्ते । कृग्भृगोः कैरभेरौ च । कैरवं कुमुदम् । भैरवः भर्गः भयानकच | मिनोतेर्मुत् च मुतवः मानविशेषः । कृगोऽण्डोन्तो वृद्धिश्च । कारण्डवः जलपक्षी । आङ्पूर्वाद्दीङो नोन्तश्च । आदीनवः दोषः । आदिग्रहणात् कोद्रवकोटवादयः ॥ ५१९ ॥ शृणाते - १५ रायः (५२०) शरावः मल्लकः || ५२० || प्रथेरिवट् पृथ् च (५२१) पृथिवी भूः ॥ ५२१ ॥ पलिस चेरिव : (५२२) पलण्, 'षचि सेचने' । पलिवः गोप्ता । सचिवः || ५२२ ॥ स्पृशेः श्वः पार् च (५२३) स्पृशंत् अस्मात् वः अयं चास्यादेशः स्यात् । पार्श्व स्वाङ्गं समीपं च । पार्श्वस्तीर्थकृत् || ५२३ ॥ कुडितुड्यडेरुवः (५२४) कुडत् कुडुवं, प्रसृतं हस्तमानं च । तुडत् तुडुवः अपनेयद्रव्यम् । अड अड्डुवः प्लवः ॥ ५२४ ॥ नीह्निन्ध्यैव्यापादामाभ्यस्त्वः २० (५२५) णींगू, नेत्वं द्यावापृथिव्यौ चन्द्रश्च । हुंकू होत्वं यजमानः समुद्रश्च । इण्क् एत्वम् । ध्यै, ध्यात्वं ब्राह्मणः । प्यैङ् वृद्धौ । आप्यात्वं ब्राह्मणः समुद्रः नेत्रं च । पां पात्वम् (पात्रम्) । डुदांग्क् दात्वं आयुक्तः यज्वा यज्ञश्च । मांकू मात्वं प्रमेयद्रव्यम् ॥ ५२५ ॥ कृजन्येधिपाभ्य इत्वः (५२६) करित्वः करणशीलः । जनैचि, जनित्वः लोकः मातापितरौ द्यावापृथिव्यौ च । जनित्वं कुलम् । एधि, एधित्वः अग्निः समुद्रः शैलश्च । पां, पेत्वं तप्तभूमिप्रदेशः अमृतं नेत्रं सुखं मानं च २५ ॥ ५२६ ॥ इति बोपान्त्या द्वाविंशत्या सूत्रैः । पादावम्यमिभ्यः शः (५२७) पांक् पाशः बन्धनम् डुदांग्क् दाशः कैवर्त्तः । टुवम् वंशः वेणुः । अम् अंशः ॥ ५२७ ॥ कृवृभृवनिभ्यः कित् (५२८) शः । कृशः तनुः । वृग्टू, वृशं शृङ्गबेरं मूलकं लशुनं च । दुडुभ्रंग्क, भृशमत्यर्थम् । वन वशः आयत्तः ॥ ५२८ ॥ कोर्वा (५२९) कुङ्, अस्मात् शः किद्वा स्यात् । कुशः दर्भः । कोश: सारः सारं कुड्मलं च ॥ ५२९ ॥ क्लिशः के च (५३०) किशौश्, अस्मात् शः अस्य च इत्यादेशः । केशाः मूर्द्धजाः || ५३० || उरेरशकू (५३१) 'उर गतौ' इत्यस्मात् सौत्रादशक् स्यात् । उरशः ऋषिः ॥ ५३१ ॥ कलेष्टित (५३२) कलि अस्माट्टिदशक् स्यात् । कलशः कुम्भः । कलशी दधिमन्थनभाजनम् || ५३२ ॥ पलेराशः (५३३) 'पल गतौ' पलाशः ब्रह्मवृक्षः ॥ ५३३ ॥ कनेरीश्चातः (५३४) कनै अस्मादाशः अस्याकारस्य च ईकारः स्यात् । कीनाशः कर्षकः वर्णसंकरः कदर्यश्च । तथा 'लुब्धः कीनाशः स्यात्कीनाशोऽप्युच्यते कृतघ्नश्च । योऽश्नाति आममांसं स च ३५
के
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
९२५
३०