________________
८५४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुर्जान्नानः परादः किम् स्यात् । आममत्ति आमात् । सस्यात् । अनन्नादिति किम् ? अन्नादः । बहुलाधिकारात् कणादः पिप्पलादः । किसिद्धोऽन्नप्रतिषेधार्थं वचनम् । 'क्रव्यात्क्रव्यादावामपक्कादौ (५।१११५१) एते यथासयं किबणन्तौ साधू यद्यामात्पक्काचाभिधेयौ। क्रव्यात् आममांसाशी क्रव्यादः पक्कमांसाशी । क्रव्याद इति नेच्छन्त्यन्ये । आममांसवाच्यपि क्रव्यशब्दः । ५क्रव्याद इति निपातनसामर्थ्यात् वृत्तौ पकमांसे वर्त्तते । अथवा कृत्तविकृत्तशब्दस्य पकमांसार्थस्य पृषोदरादित्वात् क्रव्यादेशः । सिद्धौ प्रत्ययौ विषयनियमार्थं वचनम् ॥ ५९ ॥ सूत्रम्
दियुद्ददृज्जगजुहूवाक्प्राधीश्रीशतद्रूसूज्वायतस्तूकटप्रू
परिवाभ्राजादयः विपः ॥ ६० ॥ [सि० ५।८३ ] एते क्विवन्ता निपात्याः । तत्त्वप्राट् तत्त्वप्राशौ ॥६०॥ १० 'दिद्यु' एते इत्यादि । शीलादौ सत्यर्थे एते निपात्यन्ते । इदं हि सूत्रं शीलाद्यर्थाधिकारपर्यन्ते
वर्तते । किप्प्रत्ययप्रक्रमाच्चेह लिखितम् । तत्र द्योतते इत्येवंशीलः दिद्युत् दिद्युतौ । दृणातीति ददृत् दहतौ । गच्छतीति जगत् जगतौ जगतः; क्रियाशब्दोऽयम् ; विष्टपवाचकस्तु लीबलिङ्गः । गमेडिहे चेति उणादौ वा साधुः । जगत् जगती जगन्ति । तथोक्तम्-अनेकार्थसङ्ग्रहे 'जगल्लोके
झवायुषु' लोको विष्टपं तत्र क्लीवे । इङ्ग जङ्गमं तत्र वाच्यलिङ्गः । वायौ पुंसि । तत्र लोके यथा 'परस्परं १५वीधनलोलुपं जगत् । इङ्गे यथा 'त्वं मुनीन्द्र जगत्तीर्थ' वायौ यथा 'जगजगति भ्रमतीति वित्तम् ।
जुहोतीति जुहूः । एषु द्वित्वं दणातिजुहोत्योह्रस्वत्वदीर्घत्वे च । वक्तीति वाक् । पृच्छतीति प्राट् प्राशौ । शब्दप्राट् । दधाति ध्यायति वा धीः । श्रयतीति श्रीः । शतं द्रवतीति शतद्रूः । स्रवतीति सूः। जवतीति जू:; सौत्रो धातुः । जूः राक्षसः । आयतं स्तौति आयतस्तूः । कटं प्रवते इति कटप्रूः । परिबाट परिव्राजौ । एषु दीर्घत्वं दधातेराकारस्य ध्यायतेर्याशब्दस्य च ईकारः। बहुलाधिकाराच्छी२० लादावपि । धीः सुधीः प्रधीः आधीः । भ्राजादि विभ्राजते इति विभ्राट् विभ्राजौ । भासते इति भाः
भासौ । पिपर्तीति प्रूः पुरौ । धूर्वतीति धूः धुरौ । विद्योतते इति विद्युत् विद्युतौ । ऊर्जयतीति ऊ ऊर्जी ऊर्जः । ग्रावाणं स्तौति ग्रावस्तुत् । पचतीति पक् । शक्नोतीति शक् । भिनत्तीति भित् । वेत्तीति वित् । शोकच्छित् । भुवः संज्ञायामेव भूः पृथ्वी । शम्भूः शिवः । आत्मभूः कामः, मनोभूः
स एव । स्वयम्भूः ब्रह्मा । स्वभूर्विष्णुश्च । मित्रभूः नाम कश्चित् । प्रतिभूः उत्तमाधमर्णयो२५रन्तरस्थः। दृन्भूः व्यसनसहायः । कारभूः पण्यमूल्यादिनिर्णेता । वर्षाभूर्द१रः औषधिश्च । पुनर्भूः पुनरूढा ओषधिश्च । संज्ञाया अन्यत्र भविता । शीलादिष्वसरूपविधिर्नास्ति तेन तुन्नादीनां शीलादिप्रत्ययानां पक्षे असरूपोऽपि सामान्यक्किप न प्राप्नोतीति पुनरनेन विहितः । केचित्तु संज्ञाशब्दानां शीलाद्यर्थेषु कामचारस्ते यथाकथञ्चिद् व्युत्पादनीया इति मन्यन्ते ॥ ६० ॥ सूत्रम्
त्यदायन्यसमानादुपमानाद्याप्ये दृशष्टक्
सकौ च ॥ ६१॥ [सि० ५।१।१५२] एभ्य उपमानेभ्यो व्याप्येभ्यः परात् दृशेाप्य एव टक्सको विप् च स्युः ॥६१ ॥ ३२ 'त्यदा' स्य इव दृश्यते इति वाक्ये टगागमे ॥ ६१ ॥ उपयोगिसूत्रम्
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org