________________
८५३
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया वन्याऽऽङ् पञ्चमस्य ॥ ५८॥ [सि० ४।२।६५ ] वनि पञ्चमस्य आङ् स्यात् । विजायते इति विजावा । कनिए सुधीवा । विच् शुभंयाः ॥५८॥
'वन्या' आङ् इति आकारान्तरप्रश्लेषादननुनासिकोऽनुनासिकश्चायमादेशः । अन्यथा 'लिलौ' (१।३।६६) इति ज्ञापकादनुनासिकः स्यात् । खन् विखावा, क्रम् दधिक्रावा, घुण ध्वावा । घूर्ण घूरावा ।५ ओणू अवावा । 'इवु व्याप्तौ च' । नागमे 'य्वोः प्वयः' (४।४।१२१) इति वलोपे नकारस्यात्वे बावा । ङित्करणं ध्वावेत्यादौ गुणनिषेधार्थम् । कनिए, इकार उच्चारणार्थः । इणक् प्रातरेतीति प्रातरित्वा प्रातरित्वानौ; कित्त्वाद्गुणाभावः। पित्त्वात्तद्गुणः । सुष्टु दधाति सुधीवा सुपीवा 'ईय॑ञ्जनेऽयपि' इति ई: । केवलादपि, कृत्वा कृत्वानौ धीवा पीवा । विच कीलालपाः। शुभं यातीति शुभंयाः । 'रुशं रिशंत् हिंसायाम्' । पाप्मानं रुशति रिशतीति विचि गुणे 'यजसृजः' इति शस्य १० षत्वे 'धुटस्तृतीय' इति डत्वे पाप्मरोट् । केवलादपि रोट् रेट् । जागर्तीति विचि गुणे जागः ॥५८॥
विप् ॥ ५९॥ [सि० ५।१११४८] नाम्नः पराद्धातोर्यथालक्ष्यं विप् स्यात् । संसध्वंसेत्यादिना दत्वे, उखास्रत् । प्रशाम्यतीति मो नो म्बोश्चेति नत्वे प्रशान् ॥ ५९॥
'कि' उखेन उखया स्रंसते उखासत् । पुते वर्तमान उखाशब्दः पुंस्त्री, स्थाल्यां नित्यत्रीति १५ वैयाकरणा मन्यन्ते । वहात् भ्रश्यति वहाभ्रट । 'घञ्युपसर्गस्य बहुलम्' इति बहुलग्रहणादुखवयोर्दीर्घः । पर्णानि ध्वंसते पर्णध्वत् । शकान ह्वयति शकहूः । परिव्ययति परिवीः । यवलूः खलपूः अक्षद्यः मित्रभूः प्रतिभूः कटचिकीः । केवलादपि; पाः वाः कीः गीः ऊः लूः । कुङ् य(प?)क् । सदिसूद्विषद्रुहदुहयुजविदभिदछिदजिनीराजिभ्यश्च १२ । दिवि सीदति सप्तम्या अलुप् भीरुष्ठानादित्वात्षत्वम् । दिविषत् अ॒सत् । अन्तरिक्षषत् । सभासत् । प्रसीदति प्रसत् । उपसत् । अण्डं सूते अण्डसूः,२० शतसूः प्रसूः । मित्रं द्वेष्टि मित्रद्विद्, प्रद्विट् । द्वेषो जेनीयिषीष्ट वो धर्मः । मित्राय द्रुह्यति मित्रध्रुक् प्रध्रुक् विभुक् । गां दोग्धि गोधुक् कामधुक् । अश्वेन युनक्ति अश्वेन युज्यते वा अश्वयुक् , प्रयुक् । युङ् युऔ । तत्त्ववित् वेदवित् प्रवित्। 'निर्विवेदे विदांवरः'। विदेरविशेषेण ग्रहणम् । लाभार्थान्नेच्छन्त्येके। काष्ठं भिनत्ति काष्ठभित् बलभित् गोत्रभित् प्रभित् भित् । रज्जु छिन्नत्तीति रज्जुच्छित् । तमश्छित् भवच्छित् प्रच्छित् छित् । शत्रु जयति शत्रुजित् प्रसेनजित् कर्मजित् प्रजित् अभिजित् । सेनां नयति २५ सेनानीः अग्रणीः ग्रामणीः प्रणी। नीः नियौ नियः । विश्वस्मिन् राजते विश्वाराट् । 'विश्वस्य वसुराटो' इति दीर्घः । राट् सम्राट् । अञ्चेः दध्यञ्चति ध्यङ् । देवमश्चति देवव्यङ्।प्राङ् । केवलान्न भवति। ऋतुं ऋतौ ऋतवे ऋतुप्रयोजनो यजते ऋत्विग् । 'ऋत्विज्' इत्यादिसूत्रेण गत्वम् । धृष्णोति दधृग प्रगल्भः । दधृगिति निर्देशात् द्वित्वम् । उस्निह्यति उन्नह्यति वा उष्णिक् छन्दः । उष्णिगिति निर्देशात दलोपपत्वादिकम् । कथं दिश्यते दिक् , सृज्यते इति सक् ? क्रुत्सम्पदादित्वात् विप् । ककारः३० कित्कार्यार्थः । पकारः पित्कार्यार्थः । इकार उच्चारणार्थः । 'स्पृशोऽनुदकात्' (५।१।१४९) उदकवर्जान्नानः परात् स्पृशेः किप् स्यात् । घृतं स्पृशति घृतस्पृक् । एवं मर्मस्पृक् व्योमस्पृक् । मत्रेण स्पृशति मत्रस्पृक् । कर्मोपपदादेवेच्छन्त्यन्ये । अनुदकादिति किम् ? उदकस्पर्शः । अनुद कादिति पर्युदासादुदकसहसमनुपसर्ग नाम गृह्यते। उपस्पृशति । 'अदोऽनन्नात्' (५।१।१५० ) अन्नव-३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org