________________
८५२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुएकारान्तमव्ययं वा । सूत्रनिपातनाद्वा एकारः । तत्र अग्रं सरति अग्रेण वा सरति अग्रेसर इत्यपि भवति । पूर्वात्कर्तुः (५।१।१४१) अस्मात्परात्सर्तेष्टः स्यात् । पूर्वः सरति पूर्वसरः पूर्वो भूत्वा सरतीत्यर्थः । कस्मात्पूर्व इत्यविवक्षैव । पूर्वसरी । कर्तुरिति किम् ? पूर्वं देशं सरति पूर्वसारः। 'स्थापालात्रः कः' (५।१।१४२) नाम्नः परेभ्य एभ्यः कः स्यात् । समे तिष्ठति समस्थः ५विषमस्थः कूटस्थः । कपित्थः दधित्थः महित्थः अश्वत्थः कुलत्थः। द्विपः पादपः कच्छपः अनेकपः कटाहपः । नदीष्णः । आतपत्रं धर्मत्रम् । परत्वादयं 'शमो नान्य' इत्यप्रत्ययं बाधते । शंस्थो नाम कश्चित् । शंस्था इत्यसरूपत्वात् किम् ॥ ५३ ॥ सूत्रम् शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेजपं प्रियालसहस्ति
सूचके ॥ ५४॥ [सि० ५१।१४३ ] १० एते चत्वार एषु चतुर्थेषु निपात्याः ॥५४ ॥
'शोका' शोकमपनुदति शोकापनुदः प्रियः पुत्रादिः । तुन्दं परिमाष्टिं तुन्दपरिमृजोऽलसः । स्तम्बे रमते स्तम्बेरमो हस्ती । कर्णे जपति कर्णेजपः सूचकः । एष्विति किम् ? शोकापनोदो धर्माचार्यः । तुन्दपरिमार्ज आतुरः । स्तम्बेरन्ता पक्षी । कर्णेजपिता मत्री । अत्रादिशब्दानुवृत्तेः 'मूलविभुजादयः' (५।१।१४४) एते कप्रत्ययान्ता नियतार्थधातूपपदा यथाशिष्टप्रयोगं निपात्यन्ते । १५ मूलानि विभजते मूलविभुजो रथः । उयां रोहति उर्वीरहो वृक्षः। कौ मोदते कुमुदम् । महीं धरति
महीध्रः । उपसि बुध्यते उषर्बुधोऽग्निः । आपो बिभर्ति अब्भ्रं मेघः । सरसि रोहति सरसिरुहं पद्मम् । नखानि मुञ्चन्ति नखमुचानि धनूंषि । काकेभ्यो गृहनीयाः काकगृहास्तिलाः । धर्माय प्रददाति धर्मप्रदः । एवं कामप्रदः स्वर्गप्रदः । शास्त्रेण प्रजानाति शास्त्रप्रज्ञः । एवमागमप्रज्ञः ॥ ५४॥ सूत्रम्
दुहेर्दुघः ॥ ५५॥ [सि० ५।१।१४५] २० नाम्नः पराहुहेडुघः स्यात् । कामदुधा ॥ ५५ ॥ __ 'दुहे.' कामान् दुग्धे पूरयति कामदुघा जिनार्चा । धर्माय दुग्धे धर्मदुघा । असरूपत्वात् विप् कामधुक् धर्मधुक् ॥ ५५॥
भजो विण ॥ ५६ ॥ [ सि० ५।१।१४६ ] नाम्नः पराद्भजो विण् स्यात् । अर्द्ध भजतीति अर्द्धभाक् ॥ ५६ ॥ २५ 'भजो०' अर्द्धभागिति । एवं पादभाग् दूरभाग प्रभार विभाग् । णकारो वृद्ध्यर्थः । वा कि न भवति [ विकिपोः सारूप्यार्थत्वात् ] ॥ ५६ ॥
__ मनवन्कनिविच् ॥ ५७ ॥ [सि० ५।१।१४७ ] कचिनाम्नः पराद्धातोरेते यथालक्ष्यं स्युः । सुदामा ॥ ५७ ॥ 'मन्वः ' मन् इन्द्रं शृणोति इन्द्रशर्मा सुशर्मा सुवर्मा सुदामा अश्वत्थामा। कचिद्हणात्केवलादपि शर्म वर्म हेम दामा पामा । वन भूरिदावा । घृतं पिबति घृतपावा । अग्रेवावा । विजायते ३१ इति विजावा ॥ ५७ ॥ अनोपयोगिसूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org