________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृवन्तप्रक्रिया
८५१ 'नानो' खडू तुरो गच्छति तुरङ्गः । 'भुजंत् कौटिल्ये'। भोजनं (भुजः ?) स्थादित्वात्कः । भुजेन कौटिल्येन गच्छति भुज्यन्तेऽनेन भुजः पाणिः । भुजेन भुज इवागच्छति भुजङ्गः सर्पः । प्रवेण प्लवेन गच्छति प्रवङ्गः प्लवङ्गः । विहायसा गच्छति विहङ्गः । ड, तुरगः भुजगः प्रवगः प्लवगः विहग अत्यन्तगः सर्वगः सर्वत्रगः अनन्तगः परदारगः ग्रामगः गुरुतल्पगः प्रतीपगः पुरोगः पीठगः तीरगः। अग्रादिभ्यस्तदन्तेभ्योऽपि अग्रगः सेनाप्रगः, आदिगः पश्यादिगः, मध्यगः गृहमध्यगः, अन्तगः५ शाखान्तगः, अध्वगः ग्रामाध्वगः । दूरगः अदूरगः पारगः वेदपारगः अगारगः रूयगारगः इत्यादि । अथ संज्ञायाम् , खे गच्छति खगः पक्षी । न गच्छत्यगो वृक्षः पर्वतश्च । उरसा गच्छत्युरगः पृषोदरादित्वात् सलोपः । पतो गच्छति पतङ्गः । क्षीरस्तु पतत्यनेन 'पुन्नाग्निः' (५।३।१३०) इति धे पतः पक्षस्तेन गच्छति पतगः पक्षी। पद्भ्यां न गच्छति पन्नं गच्छति वा पन्नगः सर्पः । आपोऽत्र सन्ति ज्योत्स्नाद्यण् । अपामयमाधारत्वेन 'तस्येदम् (६।३।१६०) इत्यण्वा आप्यत नदीभिरिति भावे १० धवा आपमब्धि गच्छतीत्यापगा नदी । आशु गच्छति आशुगः शरो वायुश्च । निम्नगा समुद्रगा सततगा इत्यादि । अगो वृषलः शीतेनेत्यसंज्ञायामपि । अथ खः। सुतं सुतेन वा गच्छति सुतङ्गमो नाम मुनिर्यस्य सौतङ्गमिः पुत्रः । मितं गच्छति मितङ्गमोऽश्वः । मितङ्गमा हस्तिनी । जनगमश्चण्डालः । पूर्वगमाः पन्थानः । हृदयंगमा वाचः । तुरंगमोऽश्वः । भुजङ्गमः सर्पः । प्रवङ्गमः कपिः । प्लवङ्गमो भेकः । विहङ्गमो नभसङ्गमश्च, पक्षी । नभसशब्दोऽकारान्तोऽप्यस्ति । उरङ्गम इत्यपि १५ कश्चित् । बहुलाधिकाराद्यथाप्रयोगदर्शनव्यवस्था । आदिशब्दात् 'सुगदुर्गमाधारे' (५।१।१३२) एतौ डप्रत्ययान्तौ निपात्येते । सुखेन दुःखेन गम्यतेऽस्मिन् सुगः दुर्गः पन्थाः। असरूपत्वादनडपि सुगमनः दुर्गमनः । सुगमो दुर्गम इति खल् कर्मणि । 'निर्गो देशे' (५।१।१३३)। डप्रत्ययान्तोऽयं निपात्यते । निर्गम्यतेऽस्मिन् देशे इति निर्गो देशः । 'शमो नान्यः' (५।१।१३४) शमः पराद्धातोरः स्यात् । शमित्यव्ययं सुखार्थे । तत्र भवति शम्भवोऽर्हन् । शं करोति शङ्करः ।२० शंवदः । स्वः पश्यतीत्यादिष्वव्ययानां कर्मत्वदर्शनात् शमि कर्मणि हेत्वादिष्वपि परत्वात् कृगष्टो बाध्यते । शङ्करा नाम परिव्राजिका [शकुनिकेति च बृहद्वृत्तौ ] तच्छीला च । नानीति किम् ? शङ्करी जिनदीक्षा । 'पार्थादिभ्यः शीङ' (५।१।१३५) अः स्यात् । पार्श्वभ्यां शेते पार्श्वशयः । एवं पृष्ठशयः उदरशयः । दिग्धेन सह शेते दिग्धसहशयः । दिग्धसहात्तृतीयासमासात् शीङोऽकारः पश्चादुपपदसमासः । बहुवचनाद्यथादर्शनमन्येभ्योपि । आधारार्थ आरम्भः । २५ 'ऊर्दादिभ्यः कर्तुः( ५।१।१३६) कर्तृवाचिभ्य एभ्यः परात् शीङ अः स्यात् । ऊर्द्धः शेते ऊर्द्धशयः । एवमुत्तानशयः । बहुवचनं प्राग्वत् । 'आधारात्' (५।१।१३७ ) अस्मात्परात् शीङः अः स्यात् । खे शेते खशयः । फणगति पुंस्त्रीत्वात् गर्ते शेते गर्तशयः गुहाशयः हृच्छयः बिलेशयः मनसिशयः कुशेशयः । सप्तम्या अलुप् । गिरिश इति संज्ञायां लोमादित्वाच्छः । क्रियार्थत्वे तु गिरिशय इति स्यात् । 'चरेष्टः' (५।१११३८ ) आधारात्पराच्चरेष्टः स्यात् । कुरुषु चरति कुरुचरः ३० मद्रचरः निशाचरः वनेचरः । टकारो ज्यर्थः । निशाचरी । 'भिक्षासेनादायात्' (५।१।१३९) अनाधारार्थ आरम्भः । भिक्षां चरति भिक्षाचरः। सेनां चरति परीक्षते सेनाचरस्तापसव्यञ्जनः । सेनाया वा चरति सेनाचरः । आदाय गृहीत्वा चरति आदायचरः। किमादायेत्यविवक्षैव । 'पुरोऽग्रतोऽग्रे सर्तेः' (५।१।१४०) एभ्यस्त्रिभ्यः परात्सर्तेष्टः स्यात् । पुरः सरति पुरःसरः पुर:सरी । अग्रतः सरति अग्रसरः। आधादित्वात्तस् (७।२।८४)। अग्रे सरति अग्रेसरः । सप्तम्यलुप । ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org