________________
८५० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहेमलघुवातमजा मृगाः । शद्धं जहति शर्द्धजहा माषाः । खषः शित्त्वादजेर्वी न भवति । हाक इत्युक्तेर्हाङो निवृत्तिः । 'असू (५।१।१२६) आभ्यां कर्मभ्यां परो दृशः खश् । शित्त्वात् पश्यादेशः । सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः । हशिना सम्बन्धस्य नबः सूर्येण सहासामर्थेऽपि गमकत्वात्समासः । उग्रं पश्यति उग्रंपश्यः । 'कूला' (५।१।१२२ ) कूलात्कर्मणः पराभ्यामुद्रुज ५उद्वह इत्येताभ्यां परः खश् स्यात् । 'रुजोत् भङ्गे' । कूलमुद्रुजति कूलमुट्ठजो गजः । कूलमुद्वहति कूलमुद्वहा नदी । इति कर्मोपपदप्रकरणं समाप्तम् ।
'हुरं० (५।१।१२७ ) [कर्मण इति निवृत्तम्-निपातनाद्धातोरकर्मकलाद्वा] इरापूर्वान् माद्यतेः खश् स्यात् । इरा सुरा तया माद्यति इरंमदः । श्याभावश्च निपातनात् ॥ ५० ॥
नग्नपलितप्रियान्धस्थूलसुभगायतदन्ताच्व्यर्थेऽच्वेभुवः
खिष्णुखुको ॥ ५१ ॥ [ सि० ५।१।१२८ ] नग्नादिभ्यः सप्तभ्यस्तदन्तेभ्यश्चाच्यन्तेभ्यश्व्यर्थवृत्तिभ्यः पराद्भुवः खिष्णुखुको स्याताम् । अनमो नग्नो भवतीति ननंभविष्णुः नगंभावुकः । तदन्ते, सुन भविष्णुः सुनग्नंभावुक इत्यादि ॥५१॥
'नग्न०' सुनगंभावुक इत्यादि इति । पलितानि सन्त्यस्य पलितः । अपलितो पलितो भवतीति १५ पलितंभविष्णुः पलितंभावुकः । अन्धंभविष्णुः २ । स्थूलंभविष्णुः २ । सुभगंभविष्णुः २ ।
आढ्यंभविष्णुः २ । च्यर्थ इति किम् ? नमो भविता । अच्वेरिति किम् ? आढ्यभविता तृच् । उपपदविधिषु तदन्तविधिर्नाश्रित इति तदन्तग्रहणम् ॥ ५१ ॥
कृगः खनट करणे ॥ ५२ ॥ [सि० ५।१।१२९] नग्नादिसप्तकादच्व्यन्ताच्च्व्यर्थवृत्तेः परात्कृगः करणे खनट् स्यात् । अनमः नमः क्रियते२०ऽनेनेति नम्रकरणं द्यूतम् सुन करणम् ॥५२॥
__ 'कृगः०' करण इति कर्त्तरीत्यस्यापवादः । सुननकरणमिति । एवं पलितंकरणं तैलम् । प्रियंकरणं शीलं । अन्धंकरणो लोभः । स्थूलंकरणं दधि । सुभगंकरणं रूपम् । आढ्यंकरणं वित्तम् । तदन्तेभ्योऽपि । अनमो नग्नो क्रियतेऽनेन नग्रंकरणः पटः । अपलितंकरणो रसः । [च्व्यर्थ इत्येव । नर्म करोति द्यूतेन । नात्र प्रकृतिविकारभावो विवक्ष्यते] अच्वेरियेव । नग्नीकुर्वन्त्यनेन अत्र खनटप्रतिषेधसामर्थ्या२५ दनडपि न भवति । नहि नमीकरणमित्यत्रानटखनटो रूपे:समासे त्रियां वा विशेषोऽस्ति । केचित्तु च्च्यन्तपूर्वादपि खनटमिच्छन्ति । नग्नीकरणं द्यूतम् । आदिशब्दात् 'भावे चाशिताद्भवः खः' (५।१।१३०) आशितशब्दात्पराद्भवते वकरणे चाभिधेये खः स्यात् । आशितेन तृप्तेन भूयते भवता आशितंभवो वर्तते भवतः । आशितो भवत्यनेन आशितंभव ओदनः। असरूपत्वादनडपि ।
आशितस्य भवनं आशितभवनम् । न घञ् सरूपत्वात् । आशित इति निर्देशादनातेः कर्तरि क्तो ३० [ शील्या दित्वात् ] दीर्घत्वं च । आपूर्वाद्वाऽविवक्षितकर्मकात्कर्तरि क्तः [गत्यर्थाकर्मक०' इत्यनेन] ॥ ५२ ॥
नाम्नो गमः खड्डौ च विहायसस्तु विहः ॥ ५३ ॥ [सि० ५।१।१३९]
नाम्नः पराद्गमे खड्डखाः स्युः विहायसो विहश्च । तुरङ्गः विहङ्गः । तुरगः विहगः । तुरङ्गमः ३३ विहङ्गमः॥ ५३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org