________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया
८४९ 'मन्या' पण्डितमानी बन्धोः इति । एवं दर्शनीयां मन्यते भायां दर्शनीयमानी भार्यायाः । श्यनिर्देश उत्तरार्थः [ मन्यतेनिवृत्त्यर्थश्च ] ॥ ४५ ॥
कर्तुः खश् ॥ ४६॥ [सि० ५।११११७ ] प्रत्ययात्कर्तुः कर्मणः परान्मन्यतेः खर स्यात् । आत्मानं पण्डितं मन्यते इति पण्डितंमन्यः ॥४६॥
'कर्तु' कर्तुः कर्मण इति । यदा प्रत्ययार्थः कर्ता आत्मानमेव दर्शनीयत्वादिना धर्मेण विशिष्टं मन्यते तदायं कर्म तत्रायं विधिः । तथैवोदाहरति-आत्मानमिति । एवं पट्वीमात्मानं मन्यते पट्वीमन्या विद्वन्मन्यः विदुषिमन्या। असरूपत्वाणिन्नपि । पण्डितमात्मानं मन्यते पण्डितमानी पटुमानिनी विद्वन्मानी । विद्वन्मानिनी । कर्तुरिति किम् ? दर्शनीयमानी चैत्रस्य । पूर्वेण णिन्नेव । शकारः शित्कार्यार्थः ॥ ४६॥
एजेः॥ ४७॥ [सि० ५।१।११८] कर्मणः परादेजेः खश् स्यात् । जनमेजयः॥४७॥ 'एजे०' जनमेजयति जनमेजयः । अंगान्येजयति अङ्गमेजयः । एवमरिमेजयः ॥ ४७ ॥
शुनीस्तनमुञ्जकूलास्यपुष्पात् धेः ॥ ४८॥ [सि० ५।१।११९] एभ्यः परात् दधेः खश् स्यात् । शुनीन्धयः॥४८॥ 'शुनी' शुनीं धयति शुनींधयः । एवं स्तनंधयः मुखंधयः कूलंधयः आस्य॑धयः पुष्पंधयः । मुजादिभ्यः केचिदेवेच्छन्ति । धेष्टकारो ड्यर्थः । शुनींधयी स्तनंधयी सर्पजातिः ॥ ४८ ॥
नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च ॥ ४९ ॥ [सि० ५।१।१२०] एभ्यः षड्भ्यो ध्मः दधेश्च खशू स्यात् । नाडींधमः नाडींधयः। 'नाडी०' नाडी धमयति धयति वा नाडीधमः नाडीधयः । घटींधमः घटींधयः । खरीधमः २० खरीधयः । मुष्टिंधमः मुष्टिंधयः। नासिकंधमः २ । वातंधमः २ । ड्यन्तनिर्देशस्तदभावे खश्निवृत्त्यर्थः । नाडिं धमति धयति वा नाडिध्मः नाडिधः घटध्मः २ । खरध्मः २ । सूत्रम्
पाणिकरात् ॥ ५०॥[सि०५।१।१२१ ] ध्मः खश पाणिधमः । वहाभ्राल्लिहः (५।१११२३) वहलिहः अभ्रंलिहः। बहुर्विध्वरुस्तिलात्तुदः (५।१।१२४) बहुंतुदः । ललाटवातशत्तिपाजहाकः (५।१।१२५)२५ ललाटंतपः । असूर्योग्राद् दृशः (५।१।१२६) असूर्यपश्या राजदाराः । कूलादुद्रुजोद्वहः (५।१।१२२) कूलमुद्रुजो गजः । कूलमुद्वहा नदी । इरंमदः (५।१।१२७)निपातोऽयम् ॥५०॥ _ 'पाणि' आभ्यां कर्मभ्यां पराद्धमः खश् स्यात् । धेरपि कश्चित् । पाणिंधयः करंधयः । पाणिधमा करंधमा नाडिंधमाः पन्थान इति तादृश[पाणिंधमादि]पुरुषयोगात् मञ्चाः क्रोशन्तीतिवत् । 'वहा०' (५।१।१२३) वहं स्कन्धं लेढि वहलिहो गौः । एवमभ्रंलिहो गिरिः। 'बहु. ३० (५।१।१२४) बहु तुदति बहुंतुदः । विधुतुदो राहुः । अरुस्तुदति अरुंतुदो मर्मस्पृक् । मान्ते 'संयोगस्य'ति सलुक् । एवं तिलंतुदः । 'लला' (५।१।१२५) ललाटादिभ्यः कर्मभ्यः परेभ्यो यथासयं तप अज जहाक् इत्येतेभ्यो खशू स्यात् । ललाटं तपति ललाटंतपः सूर्यः। वातमजन्ति ३३
है. प्रका० उत्त० १०७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org