________________
८४८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
प्रियवशावदः ॥ ४० ॥ [सि० ५।१।१०७ ] प्रियंवदः वशंवदः॥४०॥ 'प्रिय' प्रियं वदति प्रियंवदः । वशंवदः ॥ ४० ॥ सूत्रम्
द्विषन्तपपरन्तपौ ॥४१॥ [सि० ५।१।१०८] ५ निपातौ ॥४१॥
'द्विषः' द्विषत्परशब्दाभ्यां परा (५।१।१०७) ण्यन्तात्पत्तपेः खप्रत्ययो ह्रस्वत्वं द्विषत्तकारस्य नकारश्च निपात्यते । द्विषतस्तापयति द्विषन्तपः । परन्तपः । निपातनस्येष्टविषयत्वात् स्त्रियामनभिधानं द्विषतीतापः । अनन्त्यस्य च न स्यात् । द्विषतः परान्तश्च तपति द्विषत्तापः परतापः । सूत्रं
परिमाणार्थमितनखात्पचः खः ॥ ४२॥ [सि० ५।१।१०९] १० प्रस्थम्पचः मितम्पचः नखम्पचः ॥ ४२ ॥
'परि०' सर्वतोमानं परिमाणं, तदर्थाः प्रस्थादयः शब्दाः । एभ्यो मितनखाभ्यां च कर्मभ्यां परात्पचेः खः स्यात् । प्रस्थम्पच इति । पञ्चद्रोणम्पचः। मितम्पच इति । एवमल्पम्पचा नखम्पचा यवागूः ॥ ४२ ॥ सूत्रम् ,
कूलाभ्रकरीषात्कषः खः ॥ ४३ ॥ [ सि० ५।१।११०] १५ कूलङ्कषा अभ्रषा करीषङ्कषा ॥४३॥
कूला० (५।१।११०) कूलं कषतीति कूलङ्कषा नदी । एवमभ्रषो गिरिः । करीषङ्कषा वात्या ॥ ४२ ॥ सूत्रम्
सर्वात्सहश्च ॥ ४४॥ [सि० ५।१।१११ ] सर्वपूर्वात्सहेः कषेश्च खः स्यात् । सर्वसहः सर्वकषः ॥४४॥ २० "सर्वा' सर्वं सहते सर्वसहो मुनिः । सर्वकषः खलः । आदिशब्दात् । 'भृवृजितृतपदमेश्च
नाम्नि' (५।१।११२) कर्मणः परेभ्य एभ्यः षड्भ्यः सहश्च खः स्यात् । नाग्नि । विश्वं बिभर्ति विश्वम्भरा भूमिः । जि, शत्रुञ्जयो गिरिः । धनञ्जयः पार्थः । त, रथन्तरं साम । तप, शतपो राजा । दमिरन्तर्भूतण्यर्थोऽण्यर्थश्च गृह्यते । बलिं दाम्यति दमयति वा बलिंदमः कृष्णः । अरिंदमः । सह, शत्रुसहः । एतौ राजानौ । नाम्नीति किम् ? कुटुम्बं बिभर्ति कुटुम्बभारः । केचित्तु रथेन तरति २५ रथन्तरं सामेत्यकर्मणोपीच्छन्ति । 'धारधर च' (५।१।११३) कर्मणः पराद्धारयतेः संज्ञायां
खो धर् इत्यादेशश्च स्यात् । वसु धारयति वसुन्धरा भूः। युगन्धरः सीमन्धरः तीर्थकरावेतौ । नाम्नीत्येव | छत्रधारः । 'पुरन्दरभगन्दरौ' (५।१।११४) एतौ नाम्नि निपात्येते । पुरं दारयति पुरन्दरः शक्रः । एवं भगन्दरो व्याधिः । दारयतेह्रस्वो पुरोऽमन्तता च निपातनात् । पुरशब्दपूर्वस्य तु पुरदार इति स्यात् [ निपातस्येष्टविषयत्वात् ] । 'वाचंयमो व्रते (५।१।११५) व्रतं शास्त्रोक्तो नियमस्तस्मिन् ३.गम्यमानेऽयं निपात्यते । वाचं यच्छति नियमयति वाचंयमो व्रती । वाग्यामोऽन्यः ॥ ४४ ॥ सूत्रम्
मन्याण्णिन् ॥४५॥ [सि० ५।१।११६ ] ३२ कर्मणः परात्मन्यतेर्णिन् स्यात् । पण्डितमानी बन्धोः ॥ ४५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org