________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रिया
किंयत्तद्बहोरः॥ ३६ ॥ [सि० ५।१।१०१] किङ्करः यत्करः तत्करः बहुकरः ॥ ३६॥ _ 'किं.' (५।१११०१) एभ्यः कर्मभ्यः परात्कृगः अः प्रत्ययः स्यात् । किङ्करः किङ्करा । एवं यत्करा तत्करा बहुकरा । बहुकरीति संख्यावचनादुत्तरेण टः । चौर्ये तस्करः, वर्चस्कादित्वात्साधुः ॥ ३६॥
सङ्ख्याऽहर्दिवाविभानिशाप्रभाभाश्चित्रकायन्तानन्तकारबाह्वरुर्धनुर्नान्दीलिपिलिबिबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदार
जनिदोषादिनदिवसाहः ॥ ३७॥ [सि० ५।१।१०२] एभ्योऽष्टाविंशतः परात् कृगष्टः स्यात् । सङ्ख्याकर इत्यादि ॥ ३७॥
'सङ्खथा०' सङ्ख्थेत्यर्थप्रधानमपि तेनैकादि परिग्रहः । अहेत्वाद्यर्थ आरम्भः । सङ्ख्याकरोति ।१० सयाकरः एककरः द्विकरः त्रिकरः अहस्करः दिवाकरः विभाकरः निशाकरः प्रभाकरः भास्करः चित्रकरः कर्तृकरः आदिकरः अन्तकरः अनन्तकरः कारकरः । कारं करोति वर्चस्कादित्वात् कारस्करः। बाहुकरः अरुष्करः धनुष्करः नान्दीकरः लिपिकरः लिबिकरः बलिकरः भक्तिकरः क्षेत्रकरः जङ्घाकरः क्षपाकरः क्षणदाकरः रजनिकरः रजनीकरः दोषाकरः दिनकरः दिवसकरः । टकारो ङयर्थः । सङ्ख्याकरी । आदिशब्दानुवृत्तेः 'हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगाथावरचाटुसूत्रमन्त्र-१५ पदात्' (५।१।१०३) हेतुः प्रतीतशक्तिकं कारणम् । तच्छीलस्तत्स्वभावः । अनुकूलश्चित्तानुवर्ती । एषु कर्तृषु शब्दादिवर्जितात् कर्मणः परात् कृगष्टः स्यात् । हेतुः यशस्करी विद्या, शोककरी कन्या। तच्छीले क्रीडाकरः श्रद्धाकरः । अनुकूले, वचनकरः । हेत्वादिष्विति किम् ? कुम्भकारः। शब्दादिनिषेधः किम् ? शब्दकारः श्लोककारः कलहकारः गाथाकारः वैरकारः चाटुकारः सूत्रकारः मन्त्रकारः पदकारः। तच्छीले ताच्छिलिकश्च प्रत्यय उदाहार्यः । 'भृतौ कर्मणः' (५।१।१०४)२० कर्मन्शब्दात्कर्मणः परात्कृगः भृत्यौ गम्यायां टः स्यात् । भृतिवेतनम् । कर्म मूल्यम् । कर्मकरो भृतकः । कर्मकरी दासी । भृताविति किम् ? कर्मकारः ॥ ३७ ॥ सूत्रम्
क्षेमप्रियमद्रभद्रात् खाऽण् ॥ ३८ ॥ [सि० ५।१।१०५] एभ्यश्चतुभ्यः परात्कृगः खाऽणौ स्याताम् । क्षेमङ्करः क्षेमकारः ॥ ३८ ॥ 'क्षेम' प्रियङ्करः प्रियकारः । मद्रङ्करः मद्रकारः । भद्रङ्करः भद्रकारः । भद्रात्केचिदेवेच्छन्ति ।२५ खित्प्रत्यये मोऽन्तः । एवमन्यत्रापि । एभ्य इति किम् ? तीर्थकरः । हेत्वादिषु टः। तीर्थंकरस्तीर्थकार इत्यपि कश्चित् । खो वेति सिद्धे अण्ग्रहणं हेत्वादिष्वपि टबाधनार्थम् । कथं योगक्षेमकरो नाथ इत्यत्र क्षेमशब्दात् खाणौ नेति ? अत्रोच्यते । उपपदविभक्तिषु तदन्तविधिरेनाश्रयणात् । अत एव 'सङ्ख्यादि' (५।१।१०२) सूत्रेऽन्तग्रहणे सत्यप्यनन्तप्रहणम् । उत्तरत्र च भये सत्यप्यभयग्रहणम् ॥ ३८ ॥ सूत्रम्
मेघर्तिभयाऽभयात्खः ॥ ३९ ॥ [सि० ३१११०६] ३० एभ्यश्चतुर्म्यः परात्कृगः खः स्यात् । मेषकरः । ऋतिकरः । भयङ्करः । अभयङ्करः ॥३९॥ 'मेघ:०' स्पष्टम् ॥ ३९ ॥ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org