________________
८४६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु___ 'आयु०' धनुर्धरति धनुर्धरः । एवं शक्तिधरः । चक्रधरः । वज्रधरः । शूलधरः । हलधरः । आदिग्रहणात् भूधरः जलधरः विषधरः शशधरः विद्याधरः श्रीधरः जटाधरः पयोधरः । बहुवचनाद्यथादर्शनमन्येभ्योऽपि । दण्डधार इति । एवं कुण्डधारः काण्डधारः कर्मधारः सूत्रधारः छत्रधारः ॥ २९ ॥ सूत्रम्
हगो वयोऽनुद्यमे ॥ ३० ॥ [सि० ५१०९५] कर्मणः पराद्धृगो वयस्सनुद्यमे गम्येऽच् स्यात् । अस्थिहरः श्वा । उद्यम उत्क्षेपणमाकाशस्थस्य वा धारणं तदभावे मनोहरा सक् । उद्यमे तु भारहारः ॥ ३०॥
'हृगो' अस्थिहरः श्वेति श्वशिशुः । एवं कवचहरः क्षत्रियकुमारः। वयसि क्रियमाणः सम्भा___ व्यमानो वा उद्यम उच्यमानो वयो गमयतीत्युद्यमार्थं वयोग्रहणम् । अयमर्थः-यत्र वयो गम्यते १० तत्रोद्यमे सप्तमी भवतीत्यर्थः । संज्ञायां टोऽपीति कश्चित् मनोहरी विषहरी मणिः ॥ ३० ॥ सूत्रम्
'आङः शीले' ॥ ३१ ॥ [सि० ५।११९६ ] पुष्पाहरः॥३१॥
'आङ' (५।११९६ ) कर्मणः परादाङ्पूर्वाद्धरतेः शीले गम्यमानेऽच् स्यात् । शीलं फलनिरपेक्षा स्वाभाविकी प्रवृत्तिः । पुष्पाण्याहरतीत्येवंशीलः पुष्पाहरः सुखाहरः । पुष्पाहरः सुखाहर १५ इत्यनुद्यमेऽर्थे तु पूर्वेणाच । 'लिहादिप्रपञ्चकरणमिदम् ॥ ३१ ॥ सूत्रम्
दृतिनाथात्पशाविः ॥ ३२ ॥ [सि० ५।११९७] दृतिहरिः श्वा । नाथहरिः सिंहः ॥ ३२ ॥
'दृति' आभ्यां कर्मभ्यां पराद्धरतेः पशोः कर्तरि इः स्यात् । इति हरति दृतिहरिः श्वा। एवं नाथहरिः सिंहः । पशाविति किम् ? दृतिहारो व्याधः । नाथहारी गत्री ॥ ३२ ॥ सूत्रम् २० रजः फलेमलाद्रहः ॥ ३३ ॥ [सि० ५।१।९८]
एभ्यः कर्मभ्यः परागृहेरिः स्यात् । रजोग्रहिः फलेग्रहिः मलग्रहिः ॥ ३३ ॥ 'रज०' स्पष्टम् । फलं गृह्णाति फलेग्रहिव॒क्षः । सूत्रनिर्देशादेत्वम् । रजोमलाभ्यां केचिदेवेच्छन्ति ॥ ३३ ॥ सूत्रम्
देववातादापः ॥ ३४ ॥ [सि० ५।१९९] २५ आभ्यामाप इ: स्यात् । देवापिः वातापिः ॥ ३४ ॥ 'देव०' देवानाप्नोति देवापिः । एवं वातापिः ॥ ३४ ॥ सूत्रम्
शकृत्स्तम्बाद्वत्सवीही कृगः ॥ ३५॥ [सि० ५।१११००] आभ्यां कर्मभ्यामनयोः कोंः कृग इ. स्यात् । शकृत्करिः वत्सः । स्तम्बकरिीहिः॥३५॥ ३० 'शकृ०' स्पष्टम् ॥ ३५ ॥ सूत्रम्
१ ननु लिहादिगणे एव धातूपपदनियमः क्रियतां किममीभिः सूत्र इत्यस्योत्तरमिदम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org