________________
- प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रिया
I
कारे' ( ३।२।११२ ) सत्यादिभ्यः कारशब्दे उत्तरपदे परे मोऽन्तः स्यात् । सत्यङ्कार अगदङ्कारः । अस्तुंकारः । अस्त्विति निपातः क्रियाप्रतिरूपकोऽभ्युपगमे वर्त्तते । 'लोकंपूणमध्यंदिनानभ्याशमित्यम्' ( ३।२।११३ ) एते कृतपूर्वपदमान्ता निपात्यन्ते । लोकं पृणति लोकस्य वा पृणः लोकम्पृणः । मध्यं दिनस्य, मध्यं च तद्दिनं चेति वा मध्यंदिनम् । अश्नोतेर्घव्यभ्याश इति रूपम् । अनभ्याशं दूरमित्यं गर्तव्यमस्य अनभ्याशमित्यः दूरात्परिहर्त्तव्यः । अनभ्याशेन दूरेण इत्यः प्राप्यो ५ नवन्ति केनेत्यनभ्याशमित्य इति वा । अन्ये तु प्रीणातेर्णिगन्तस्य अचि ह्रस्वत्वं निपात्य लोकम्प्रिण इति मन्यन्ते । लोकस्य प्रीणक इत्यर्थः । केचित्त्वकृतह्रस्वमेव मन्यन्ते लोकं प्रीण इति । 'भ्रष्ट्रानेरिन्धे' ( ३।२।११४ ) आभ्यामिन्धे उत्तरपदे मोऽन्तः स्यात् । भ्राष्ट्रमिन्धः । अग्निमिन्धः | 'अगिला गिलगिलगिलयो:' ( ३।२।११५) गिलान्तवर्जितात् पूर्वपदात्परे गिले गिलगिले चोत्तरपदे मोऽन्तः स्यात् । तिमिङ्गिलतीति तिमिङ्गिलः । एवं मत्स्य ङ्गिलः । बालङ्गिलो राक्षसः | १० तिमीनां गिलगिलः तिमिङ्गिलगिलः । गिलगिलशब्देऽखण्डे गिलशब्दोनोत्तरपदमिति गिलगिलोपादानम् । गिलशब्दस्य स्वरान्तस्य पर्युदासेन व्यञ्जनान्तान्न भवति । धूर्गिलः । अगिलादिति किम् ? तिमिंगलं गिलति तिमिंगिलगिलः । गिलं गिलति गिलगिल इत्यत्र गिलगिलेति निर्देशादेव मोऽन्तो न स्यात् । अगलादिति निषेधो गिलान्तस्यापि निवृत्त्यर्थः । अपिशब्दात्केवलस्यापि निवृत्तिः । 'भद्रोणात्करणे' ( ३।२।११६ ) आभ्यां करणशब्दे उत्तरपदे मोऽन्तः स्यात् । भद्रस्य करणं १५ भद्रंकरणम् । एवमुष्णंकरणम् । 'धेनोर्भव्यायाम्' ( ३।२।११८ ) धेनुशब्दाद्भव्याशब्दे उत्तरपदे मोऽन्तो वा स्यात् । धेनुश्चासौ भव्या च धेनुम्भव्या । केचित्तु नित्यमिच्छन्ति ॥ २६ ॥ सूत्र अर्होऽच् ॥ २७ ॥ [ सि० ५ १,९१ ]
कर्मणः परादर्हेरच् स्यात् । पूजार्हः साधुः । पूजार्हा साध्वी ॥ २७ ॥
'अह०' पूजामर्हतीति पूजार्हः साधुः । साध्वी तु पूजार्हा 'आत्' (२|४|१८ ) इत्यापू २०
॥ २७ ॥ सूत्रम्
धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्टियष्टिशक्तितोमरघटाद्रहः
एभ्यो दशभ्यः कर्मभ्यः पराद्वहेरच् स्यात् । धनुर्ग्रहः ॥ २८ ॥
1
८४५
॥२८॥ [ सि० ५|१|९२ ]
'धनु०' धनुर्गृह्णातीति धनुर्ग्रहः । एवं दण्डग्रहः त्सरुग्रहः लाङ्गलग्रहः अङ्कुशग्रहः ऋष्टिग्रहः यष्टिग्रहः शक्तिग्रहः तोमरग्रहः घटग्रहः । नामग्रहणे लिङ्गशिविष्टस्यापि इति घटीग्रहः । अणपीत्येके । २५ दण्डग्राह इत्यादि । आदिशब्दानुवृत्तेः 'सूत्राद्वारणे' ( ५।१।९३ ) सूत्रं कर्पासादिमयं लक्षणसूत्रं वाविशेषेण गृह्यते । सूत्रात्कर्मणः पराद्रहणपूर्वके धारणेऽच् स्यात् । सूत्रं गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा । सूत्रमुपादाय धारयतीत्यर्थः । अन्ये त्ववधारणे एवेच्छन्ति । तन्मते सूत्रग्रहः प्राज्ञ एवोच्यते । यस्तु सूत्रं गृह्णाति न तु धारयति स सूत्रग्राह एव । सूत्रधारोऽपि प्रयोजने एव सूत्रं गृह्णाति न तु सदेति सोपि सूत्रग्राह एव ॥ २८ ॥ सूत्रम् ।
३०
Jain Education International
आयुधादिभ्यो धृगोऽदण्डादेः ॥ २९ ॥ [ सि० ५ १ ९४ ] दण्डादिवर्जादायुधादेः पराद् धृगोऽच् स्यात् । धनुर्धरः । भूधरः | अदण्डादेरिति किम् ?
३३
ण्डधारः ॥ २९ ॥
For Personal & Private Use Only
www.jainelibrary.org