________________
८४४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
एभ्यः कर्मभ्यः पराद्धन्तेष्टक् स्यात् । ब्रह्मनः गोनः पापी ॥ २३ ॥ 'ब्रह्मा' स्पष्टम् । ब्रह्म हन्ति ब्रह्मनः । एवं कृतघ्नः शत्रुघ्नः वृत्रघ्नः भ्रूणन्नः बालनः । शशनी पक्षिजातिः । बहुलाधिकारात्सम्प्रदानेऽपि गां हन्ति यस्मै आगताय दातुं स गोनोऽतिथिः । बहुवचनाद्यथादर्शनमन्येभ्योऽपि स्यात् । अत्रामी विशेषाः-'हस्तिबाहुकपाटाच्छक्तो' (५।११८६) ५एभ्यः पराद्धन्तेः शक्तौ गम्यायां टक् स्यात् । हस्तिनं हन्तुं शक्तो हस्तिनः पुमान् । बाहुघ्नो मल्लः । कपाटनश्चौरः । शक्ताविति किम् ? हस्तिनं विषेण हन्ति हस्तिघातो रसदः । अणेव । 'नगरादगजे' (५।१।८७ ) अस्मात्पराद्धन्तेर्गजवर्जिते कर्तरि टक् स्यात् । नगरनो व्याघ्रः । गजस्तु नगरघातः । जायापतेरित्यादयश्चत्वारो योगाश्चित्तवत्कर्थाः ॥ २३ ॥ सूत्रम्
राजघः ॥ २४ ॥[सि० ५।१।८८] १० निपातोऽयम् ॥ २४ ॥
'राज' (१११८८) निपातोऽयमिति । राज्ञः कर्मणः पराद्धन्तेष्टक् घादेशश्च निपात्यते । राजानं हन्ति राजघः । 'रराज नीराजनया स राजघः' नैषधीये। आदिशब्दात् "पाणिघताडघौ शिल्पिनि' (५।१।८९) एतौ शिल्पिनि कर्तरि निपात्येते । पाणिं हन्ति पाणिघः ताडघः शिल्पी । पाणिना ताडेन हन्तीति करणादपि केचित् । टक् घादेशश्च निपातनात् । शिल्पिनीति १५ किम् ? पाणिघातः ताडघातः ॥ २४ ॥ सूत्रम्
कुक्ष्यात्मोदराद्धृगः खिः ॥ २५ ॥ [सि० ५।१।९० ] एभ्यः कर्मभ्यः पराभृगः खिः स्यात् । ख इत् ॥ २५ ॥ 'कुक्ष्या०' स्पष्टम् ॥ २५ ॥ अत्रोपयोगिसूत्रम् ।।
खित्यनव्ययाऽरुषो मोऽन्तो हखश्च ॥ २६ ॥ [ सि० ३।२।१११] २० स्वरान्तस्यानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तो यथासम्भवं हस्तश्च स्यात् । कुक्षिम्भरिः आत्मम्भरिः उदरम्भरिः ॥२६॥
"खित्या' अर्ग्रहणादव्ययानां स्वरान्तत्वं लभ्यते । अव्ययप्रतिषेधात् खित्प्रत्ययान्तग्रहणम् , नह्यव्ययात्परः खित्सम्भवति । ननु यथाव्ययात् खिन्न सम्भवति, तथानव्ययादपि न सम्भवति ?
नैवम् अनव्ययद्धातोः सम्भवति, ततश्च धातोः खिति प्रत्यये परे मोऽन्ते शंमन्य इत्यादौ मन्यस्य २५ मोऽन्तप्रसङ्गः स्यात्पर्युदासाश्रयेणानव्ययसदृशस्य ज्ञादिशब्दस्य खित्प्रत्ययान्ते उत्तरपदे मोन्तः स्यादित्यर्थो लभ्यत इति । ततः खितीति खित्प्रत्ययान्ते परे इत्यर्थः । यथा शंमन्यः पण्डितंमन्यः क्ष्ममन्या खट्वंमन्या रात्रिमन्यमहः द्रुणिमन्यः ग्रामणिमन्यः वधुंमन्यः खलपुंमन्यः । एषु 'मन्याण्णिन्' (५।१।११६) इति सूत्रात्मन्यादित्यनुवर्त्य 'कर्तुः खश्' (५।१।११७ ) इति खशपरत्वात्पुंवद्भावो
ह्रस्वत्वेन बाध्यते । कालिंमन्या हरिणिमन्या । अरुस् बहुविध्वरुरिति खश् मोऽन्ते सति 'संयोगस्यादा३० विति स लोपः अरुन्तुदः । खितीति किम् ? पण्डितमानी । अनव्ययेति किम् ? दोषामन्यमहः । दिवामन्या रात्रिः । अरुःशब्दोपादानादनव्ययस्य व्यञ्जनान्तस्य मो न भवति । गीर्मन्यः । नन्वत्र मोऽन्तेपि 'पदस्येति' (२।११८९) लोपो भविष्यति किं प्रतिषेधेन ? उच्यते-'रात्सः' (२।१।९०) इति नियमालोपो न स्यादिति प्रतिषेधः । 'स्वरस्य ह्रस्वदीर्घप्लुताः' इति स्वरस्यैव हस्वः । कृद्रहणे सति ३४ गतिकारकस्यापीति कूलमुद्रुजः। कूलमुबह इत्यत्रापि भवति । अत्रादिशब्दसंनिधानात् 'सत्यागदास्तोः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org