________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया इत्यनेन डप्रत्यये सिद्धम् । अनुपसर्गादिति किम् ? गोसंदायः । 'उपसर्गो न व्यवधायी' त्यण् । ज्ञापकं त्वस्य 'गायोऽनुपसर्गादृक्' इत्यत्रोपसर्गवर्जनमन्यथोपसर्गव्यवधानप्राप्तेरेवाभावे उपसर्गवर्जनमनर्थकं स्यात् । अत्रादिशब्दसंसर्गात् । 'समः ख्यः' (५।१७७) कर्मणः परात् सम्पूर्वात् ख्या इत्येतस्माड्डः स्यात् । गाः सङ्ख्याति संचष्टे वा गोसङ्ख्यः । उपसर्गार्थं च वचनम् । एवमग्रिमसूत्रद्वयेऽपि । 'दश्चाङ:' (५।।७८) कर्मणः परादाङ्पूर्वात् ददातेः ख्या इत्येतस्माच्च डः स्यात् । ५ दायमादत्ते दायादः । स्त्रियमाचष्टे ख्याख्यः । प्रियाख्यः। प्राज्ज्ञश्च (५।११७९) कर्मणः परात् प्रपूर्वाज्जानातेर्दारूपाच्च डः स्यात् । पन्थानं जानातीति पथिप्रज्ञः । प्रपाप्रदः । इह सूत्रे दारूपं गृह्यते न संज्ञा, ज्ञाख्यासाहचर्यात्, तेन दांवदैवोरपि प्रहस्तेन केदारप्रदो भाजनप्रदश्चेति सिद्धम् । पूर्वसूत्रे तु दाग एव ग्रहणम् तस्यैवाङा योगात्तेन स्तनौ प्रधयतीति स्तनप्रधाय इत्यणेव ॥ १९ ॥ सूत्रम्
आशिषि हनः ॥२०॥[सि० ५।११८०] कर्मणः पराद्धन्तेराशिषि गम्यायां डः स्यात् । शत्रुहः ॥ २०॥
'आशि०' शत्रु वध्यादिति शत्रुहः । एवं पापहः दुःखहः । गतावपीति कश्चित् । क्रोशं हन्ति क्रोशहः ॥ २० ॥ सूत्रम् ।
क्लेशादिभ्योऽपात् ॥ २१॥ [सि० ५।११८१ ] क्लेशादेः कर्मणः परादपपूर्वाद्धन्तेर्डः स्यात् । क्लेशापहः तमोपहः ॥२१॥
क्लेशा' क्लेशमपहन्ति क्लेशापहः । एवं तमोपहः दुःखापहः ज्वरापहः दर्पापहः दोषापहः रोगापहः। वातपित्तकफापहः । विषाग्निदर्पापहः । बहुवचनाद्यथादर्शनमन्येभ्योपि स्यात् । कथं दाघाटः । चार्वाघाटः । घटतेरणि संज्ञायां भविष्यति । दारुः सारसः । चारुस्तु जीवभेदस्तमा घटते सम्बध्नातीति । चारु आहन्तीति चार्वाघातः । दार्वाधातोऽपि तर्हि स्यादसंज्ञायामिष्यते एव । एवमसंज्ञायां सम्पूर्वाभ्यां घटिहनिभ्यां वर्णसंघाटः वर्णसंघात इत्यादि सिद्धम् । हन्तेरेव वा पृषोद-२० रादित्वात् वर्णविकारः । अत्रायं विशेषः 'कुमारशीर्षाणिन्' (५।१।८२) आभ्यां कर्मभ्यां पराद्धन्तेनिन् स्यात् । कुमारं हन्ति कुमारघाती शीर्षघाती । अत एव निपातनाच्छिरसः शीर्षभावः । शीर्षशब्दोऽकारान्तः प्रकृत्यन्तरं वा । तथा च 'शीर्षे स्थितं पृष्ठतः' इति ॥ २१ ॥ सूत्रम्
अचित्ते टक् ॥ २२ ॥ [सि० ५।१।८३ ] कर्मणः पराद्धन्तेरचित्तवति कर्तरि टक् स्यात् । वातघ्नं तैलम् । अचित्त इति किम् ? पाप-२५ घातो यतिः ॥२२॥
'अचि०' वातं हन्ति वातघ्नम् । एवं पित्तनं घृतम् । श्लेष्मघ्नं मधु । रोगघ्नमौषधम् । पतिघ्नी पाणिरेखा । सर्वकर्मनी शैलेशी । सुनो नगरम् । शतघ्नी शस्त्रविशेषः । हस्तन्नो ज्याघातत्रो(नः ?) वर्धपट्टः । बहुलाधिकारात् त्रुघ्नादयः संज्ञायाम् । पापघातो यतिरिति । एवं चोरघातो राजा । आखुधातो बिडालः । मत्स्यघातो बकः । सस्यघातो वृषभः । आदिशब्दात् 'जायापतेश्चिह्नवति' ३० (५।११८४) आभ्यां कर्मभ्यां पराद्धन्तेश्चिह्नवति कर्तरि टक् स्यात् । चिद्रं शुभाशुभसूचकं शरीरस्थं लक्षणम् । जायानो ब्राह्मणः । पतिघ्नी कन्या दुर्लक्षणा इत्यर्थः ॥ २२ ॥ सूत्रम् । ब्रह्मादिभ्यः ॥ २३ ॥ [सि० ५.१८५]
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org