________________
८४२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुनीतिः । मित्रमेनं वर्द्धिषीष्ट मित्रवृद्धिः इति क्तिः । देवा एनं देयासुः देवदत्तः यज्ञदत्तः विष्णुरेनं श्रूयादिति विष्णुश्रुतः । शर्व एनं वृषीष्ट शर्ववर्मा मन् । गङ्गा एनं मिद्यात् गङ्गामित्रः त्रक् । वर्धिषीष्ट वर्द्धमानः ॥ १७ ॥ अथ कर्मोपपद्धातोः कर्तरि प्रत्ययाग्निरूपयति । सूत्रम्
कर्मणोऽण् ॥ १८॥ [सि० ५।१७२] कर्मणः पराद्धातोरण स्यात् । कुम्भं करोतीति कुम्भकारः ॥ १८ ॥
'कर्मण' कर्मण इति निर्वर्त्यविकार्यप्राप्यरूपात्कर्मणः पराद्धातोरण स्यात् । अजाद्यपवादः। निर्वात् कुम्भकारः नगरकारः। विकार्यात् काण्डलावः । प्राप्यात् वेदाध्यायः चर्चापारः
भारहारः सूत्रधारः भारवाहः द्वारपालः उष्ट्रप्रणायः कमण्डलुग्राहः । आदित्यं पश्यति हिमवन्तं १० शृणोति ग्रामं गच्छतीत्यादौ प्राप्यात् कर्मणोऽनभिधानान्न भवति । महान्तं घटं करोतीति सापेक्षत्वा.
दनभिधानाच्च । तथा च बहुलाधिकारात् निर्वर्त्यविकार्याभ्यां कचिन्न भवति । संयोगं जनयति । स्रजं विरचयति । वृक्षं छिनत्ति । कन्यां मण्डयति । णकारो वृद्ध्यर्थः । आदिशब्दसांनिध्यात् 'शीलिकामिभक्ष्याचरीक्षिक्षमो णः' (५।१।७३ ) कर्मणः परेभ्य एभ्यः षड्भ्यो णः स्यात् । धर्म
शीलयति धर्मशीलः । एवं धर्मकामः । वायुभक्षः । आङ्पूर्वश्चरिः कल्याणाचारः । सुखप्रतीक्षः । १५ बहुक्षमः । अल्पबन्तैः शीलादिभिर्बहुव्रीहौ सति धर्मशीलादयः सिद्ध्यन्ति । अणु वा बाधनार्थ
तु वचनम् । अणि हि सति स्त्रियां ङीः स्यात्ततश्च धर्मशीलीयाद्यनिष्टं स्यात् । णे तु आपि धर्मशीलेल्याद्यभीष्टं रूपं स्यात् । एवंप्रायेषु च बहुव्रीहावाश्रीयमाणेऽम्भोतिगमेति स्यात्, अम्भोतिगामीति चेष्यते । अयं भावः । अतिगम्यते युवर्णेत्यलि बहुव्रीहौ अनिष्टं रूपम् । अम्भः कर्म अतिगच्छतीति वाक्ये तु कर्मणोऽणित्यणिष्टं रूपमिति । कामीति ण्यन्तस्योपादानादण्यन्तादणेव । पयस्कामीति ण्यन्तस्य २० तु णे सति पयःकामेति भवति । अत एव ण्यन्तनिर्देशादण्यन्तनिर्देशे कृमिकंसेत्यादौ केवलस्य
कमर्ग्रहणं तेन णे सति रोः सकारादेशो न भवति । गायोऽनुपसर्गाक्' (५।१७४) कर्मणः परादित्यनुवर्तते । वक्रं गायति वक्रगः । प्रत्ययस्य टित्त्वात् स्त्रियां ङीः । वक्रगी सामगी। वक्रादयो गीतिविशेषाः । अनुपसर्गादिति किम् ? वक्रसंगायः अणेव । गायतिनिर्देशो गानिवृत्त्यर्थः । सुरा
सीधोःपिवः' (५।१।७५) आभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक् स्यात् । सुरापः । सुरापी २५स्त्री । सीधुपः । सीधुपी । आभ्यामिति किम् ? क्षीरपा बाला । उत्तरसूत्रेण डः । पिबः इति किम् ?
सुरां पाति सुरापा । कथं संज्ञायां सुरापा सुरापीति डीविकल्पः । पाति पिबत्यो रूपद्वयं न च धात्वर्थभेदः । संज्ञायां धात्वर्थस्य व्युत्पत्तिमात्रार्थत्वात् ॥ १८ ॥ सूत्रम् ।
आतोडोऽहावामः ॥ १९ ॥ [सि० ५।१७६ ] कर्मणः परादनुपसर्गात् हावामावर्जादादन्ताद्धातोर्डः स्यात् । गोदः । अहावाम इति इति ३० किम् ? स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥ १९ ॥
'आतो.' गां ददाति इति गोदः । एवं पाणि अङ्गुलित्रं ब्रह्मज्यः वपुर्वीतवान् वपुर्व्यः । अनिर्दिष्टार्थानिष्वपि कालेषु भवन्तीत्यत्र भूतेऽपि डः । तन्तुवाय इति वातिवायत्योरकर्मकत्वान्न ग्रहणम्। ३३ धान्यं माति मिमीते मयते वा धान्यमायः; अत्राणेव । मित्रह्व इति तु 'क्कचित्' (५।१।१७१)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org