________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रिया नृत्खनरजः शिल्पिन्यकट् ॥ १३ ॥ [सि० ५।११६५ ] एभ्यः शिल्पिनि कर्त्तर्यकट् स्यात् । नर्तकः खनकः रजकः ॥ १३ ॥ 'नृत्ख०' शिल्पिनीति शिल्पं कर्म कौशलं तद्वान् शिल्पी । प्रत्ययस्य टित्त्वात् स्त्रियामणयेति डी: नर्तकी खनकी रजकी । शिल्पिनीति किम् ? नर्तिका खानकः रञ्जकः ।। १३ ॥ सूत्रम्
गस्थकः [५।११६६] टनण च ॥ १४ ॥ [सि० ५।१६७] ॥ १५॥ ५ गः शिल्पिनि कर्तर्येतौ स्याताम् । गाथकः । 'आत ऐः कौ', गायनी ॥ १४ ॥१५॥ 'गस्थकः' 'टन' सूत्रद्वयं स्पष्टम् । गाङःप्रत्यये शिल्पी न गम्यते शब्दशक्तिस्वाभाव्यात्ततो गायतेस्रहणम् । टनणष्टित्त्वं स्त्रीलिङ्गे ड्यर्थम् । णित्त्वं 'आत ऐः कृऔं' इत्येवार्थ ततो गायनीति सिद्धम् । पृथग्योगस्तु टनणोऽप्रेतनसूत्रेऽनुवृत्त्यर्थः । आदिशब्दानुवृत्तेः "हः कालत्रीह्योः' (५।१।६८) जहातेर्जिहीतेर्वा कालव्रीह्योः कर्बोष्टनण् स्यात् । जहाति जिहीते वा भावान् हायनः, संवत्सरः । जह-१० त्युदकं रोत्थानाजिहते वा द्रुतं हायना नाम ब्रीहयः । कालबीह्योरिति किम् ? हाता । 'प्रमृल्वोऽक: साधौ' (५।१।१६९) एभ्यः साधुत्वविशिष्टेऽर्थे वर्तमानेभ्योऽकः स्यात् । साधु प्रवते इति प्रवकः । एवं सरकः लवकः । साधाविति किम् ? प्रावकः सारकः लावकः । 'आशिष्यकन्' (५।१।७०) इष्टप्रार्थनमाशीस्तस्यां गम्यायां धातोरकन् स्यात् । जीवतादित्याशास्यमानो जीवकः । एवं नन्दकः भवकः । आशिषीति किम् ? जीविका नन्दिका भाविका । नकार इच्चाउँसोऽनित्क्याप्परे १५ इत्यत्र व्युदासार्थः । तेन जीवका नन्दका भवका ॥ १४ ॥ १५ ॥
तिकृतौ नाम्नि ॥ १६ ॥ [ सि० ५।११७१ ] आशीर्विषये संज्ञायां गम्यायां तिकृतश्च सर्वे प्रत्ययाः स्युः ॥ १६ ॥ 'तिकृ०' ॥ १६ ॥ अनोपयोगि सूत्रम् ।
अहन्पञ्चमस्य विकृिति ॥ १७ ॥ [सि० ४।१।१०७] हन्वर्जपश्चमान्तस्य को धुडादौ क्विति च दीर्घः स्यात् । शम्यादित्याशास्समानः शान्तिः। वर्धतामित्याशास्यमानो वर्धमानः ॥ १७ ॥
'अह०' को यथा प्रशान् प्रतान् प्रदान् । प्रशामौ प्रदामौ प्रतामौ । किति शान्तः शान्तवान् शान्त्वा शान्तिः । एवं दान्तः तान्तः । ङिति शंशान्तः तन्तान्तः दन्दान्तः । पञ्चमस्येति ओदनपक् । पक्त्वा । अहन्निति किम् ? वृत्रहणि भ्रूणहनि हन्वर्जनादुपदेशावस्थायां पञ्चमो गृह्यते तेन सुगण इत्यत्र २५ दी? न । किक्कुिति इति किम् ? गन्ता रन्ता । धुटीत्येव । यम्यते यंयम्यते । कश्चित्त्वाचारकावपि दीर्घत्वमिच्छति । कमिवाचरति कामति । शम् शामति । किम् कीमति । इदम् इदामति । प्रकृते शान्तिरिति । कचित्तिकीति 'न तिकि दीर्घश्चेति' (४।२।५९) यमिरमिनमिगमिहनिमनिवनतितनादीनां तिकि प्रत्यये परे नलुक् दीर्घश्व न स्याताम् । यथा यन्तिः रन्तिः गन्तिः हन्तिः मन्तिः वन्तिः तन्तिरिति । सूत्रं चैतत्प्राग्व्याख्यातम् । रन्तिरिति रमतामित्याशंसितः । तन्यात् ३० तन्तिः । सन्यात् सन्तिः । कृत्-वीरो भूयात् वीरभूः मित्रभूः इति । किप्-अग्निरस्य भूयात् अग्निभूतिः । एवं देवभूतिः अश्वभूतिः सोमभूतिः । कुमारोऽस्य दुरितानि नयतात् एवमाशंसितः कुमार-३२
है. प्रका. उत्त० १०६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org