________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रिया
ब्रुवः ॥ ७ ॥ [ सि० ५ | १ | ५१ ]
ब्रूगोऽचि बुवः स्यात् । ब्राह्मणबुवः ॥ ७ ॥
'ब्रुवः' ब्राह्मणमात्मानं ब्रूते ब्राह्मणबुवः । अणूवचादेशगुणबाधनार्थं निपातनम् । जातिमात्रजीवी द्विजब्रुव इत्यभिधानचिन्तामणौ । एवं पण्डितनुवादयोऽपि ॥ ७ ॥ सूत्रम्
नन्द्यादिभ्योऽनः ॥ ८ ॥ [ सि० ५१/५२ ]
८३९
नन्दनः । सहनः ॥ ८ ॥
'नन्द्या०' नन्द्यादयो नन्दनरमणेत्यादि नामगणशब्देभ्यो प्रोद्धृत्य ज्ञेयाः । स प्रत्ययपाठो विशिष्टविषयार्थी रूपनिग्रहार्थश्च । नन्दि वाशि मदि हृषि साधि वर्द्धि शोभि रोचिभ्योऽष्टाभ्यो ण्यन्तेभ्यः संज्ञायाम्-नन्दनः, वाशनः ऋषिः, मदनः दूषणः साधनः वर्द्धनः शोभनः रोचनः । सहिरमिदमिरुचिकृतित पितृदिदहियुपलभ्य एकादशेभ्योऽण्यन्तेभ्यः संज्ञायाम् - सहते सहनः । एवं रमणः कान्तः । १० दमनः ऋषिविशेषः । रोचनः विरोचनः विकर्त्तनः तपनः चतस्रोऽपि सूर्यसंज्ञाः । प्रतर्दनः राजविशेषः । दहनः । यवनः राजा देशश्च । पवनः । लवणः दानविशेषः, निपातनाण्णत्वम् । समः ऋन्दिकृषिहृषिभ्यः संज्ञायामेव संक्रन्दन इन्द्रः । संकर्षणः बलदेवः । संहर्षणः राजविशेषः । कर्मणो दअिनिशिदिभ्यः सर्वदमनः राजविशेषः । जनार्दनः । चित्तविनाशनः ऋषिविशेषः । 1 मधुसूदनः । असंज्ञायामपि रिपुदमनः कुलदमनः परार्द्दनः रोगनाशनः अरिसूदनः । नर्द्दिभीषि - १५ भूषिपिजल्पिभ्यः पञ्चभ्यः नर्द्दयति नर्द्दनः । विभीषयते बिभीषणः । भूषयति भूषणः । हृप्यति दर्पणः । जल्पति जल्पनः । नन्द्यादय एकत्रिंशत् । बहुवचनमाकृतिगणार्थम् ॥ ८ ॥ सूत्रम् ग्रहादिभ्यो णिन् ॥ ९ ॥ [ सि० ५१/५३ ]
गृह्णातीति ग्राही । तिष्ठतीति स्थायी ॥ ९ ॥
'ग्रहा०' एभ्यो नाम गणदृष्टेभ्यो णिन् स्यात् । स्थायीति । एवं उपस्थायी । मत्री | संमर्दी | २० उपावाभ्यां रुधः उपरोधी अवरोधी । अपाद्राधः अपराधी । उद: सहिदसि भासिभ्यः । उत्साही उदासी उद्भासी । नेः श्रुशीविशवसवपरक्षिभ्यः षड्भ्यः निशृणोति निश्रावी । निशायी निवेशी निवासी निवापी निरक्षी । नमो व्याहृ संव्याहृ संव्यवह याचि व्रज वद वसिभ्यः सप्तभ्यः । न व्याहरति अव्याहारी । असंव्याहारी असंव्यवहारी अयाची अत्राजी अवादी अवासी । नत्र पूर्वात्स्वरान्तादचित्तवत्कर्तृकात् अकारी धर्मस्य बालातपः । अहारी शीतस्य शिशिरः । चित्तवत्कर्तृकान्न २५ भवति अकर्त्ता कटस्य चैत्रः । केचिदनञ्पूर्वादिच्छन्ति कारी हारी । व्यभि ( ति ? )भ्यां भुवोऽतीते । विभवति स्म विभावी अभि (अति ?) भावी । विपरीभ्यां भुवो ह्रस्वश्च वा । विभवति विभावी-विभवी । परिभावी - परिभवी । वेः शीङषिगोर्देशे हस्वश्च । गुणैश्चित्ते विशेते विसिनोति वा विशयी विषयी च देशः । निपातनात्पत्वम् । महादयो द्वात्रिंशत् । ग्रहादिराकृतिगणः ॥ ९ ॥ सूत्रम्
1
Jain Education International
नाम्युपान्त्यश्रीकृगृज्ञः कः ॥ १० ॥ [ सि० ५ १ ५४ ]
नाम्युपान्त्येभ्यः प्रयादिभ्यश्चतुर्भ्यश्च कः स्यात् । क्षिपः प्रियः किरः गिरः ज्ञः ।। १०॥ 'नाम्यु० ' ककारः कित्कार्यार्थः । क्षिप इति । एवं विक्षिपः विलिखः बुधः युधः कृशः वितृदः । प्रीणातीति प्रियः । किरतीति किरः । उत्किरः । गिरति गिलः निगिल : 'नवा स्वरे' इत्यत्र व्यव - ३३
1
For Personal & Private Use Only
३०
www.jainelibrary.org