________________
५
१०
८३८
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघुकर्त्तरि ॥ ३ ॥ [ सि० ५।११३ ]
कृदर्थविशेषोक्तिं विना कर्त्तरि स्यात् ॥ ३ ॥ 'कर्त्त०' स्पष्टम् । तथैव दर्शयति ॥ ३ ॥
कतृचौ ॥ ४ ॥ [ सि० ५ १२४८ ]
धातोरेतौ स्याताम् । करोतीति कारकः कर्त्ता । सेटां- स्ताद्यशित इतीडागमे एधिता । धूगौदित इति वेटि गोप्ता गोपिता । सहिवहेरिति सोढा वोढा । णितीत्युपान्त्यवृद्धौ
पाचकः ॥ ४ ॥
'णक०' णकारो वृद्ध्यर्थः । चकारः त्र्यन्त्यस्वरादेरित्यत्र सामान्यग्रहणाविघातार्थः । अन्यथा निरनुबन्धेति न्यायात्तच एव ग्रहः स्यान्न तु तृनः । शेषं सर्वं स्पष्टम् ॥ ४ ॥ सूत्रम् अच् ॥ ५ ॥ [ सि० ५ १२४९ ]
धातोरच् स्यात् । करः हरः ॥ ५ ॥
'अच्०' करः हरः इति । एवं पचः पठः उद्वहः । चकारोऽचीत्यत्र विशेषणार्थः । अत्रायं विशेषः 'सयसितस्य' ( २।३।४७ ) परिनिविभ्यः परस्य सयसितयोः सस्य षः स्यात् । परिषयः निषयः विषयः । परिषितः निषितः विषितः । सय इति सिनोतेरलंतस्याजन्तस्य घान्तस्य वा १५ परिसयनं अल् परिसिनोति अच् परिसिनोत्यस्मिन् ' पुन्नानि घः' ( ५।३।१३० ) । सित इति क्तान्तस्य रूपम् । स्यतेर्वा नियमार्थं परिनिविपरस्यैव क्तान्तस्य स्यतेर्यथा स्यात् । तेनोपसर्गान्तरपूर्वस्य 'उपसर्गात्सुग्०' (२।३।३९ ) इत्यादिनापि न भवति । तेन प्रतिसितः । निसित इत्यादि सिद्धम् । योगविभागात् द्वित्वेऽप्यव्यपीति निवृत्तम् । तेन विषयमाख्यत् मा विषसयदित्यत्र द्वित्वे सति पूर्वेण व्यवधानादुत्तरस्य न भवति, पूर्वस्य त्वव्यवहितत्वाद्भवत्येव । विषय मैच्छत् क्यन् । क्यनि ई: । २० व्यसयीयत् । परिषित इवाचरत् क्यङ् दीर्घश्रवीति दीर्घे पर्यसितायत । अत्र षत्वं कृतमपि परेऽडागमे सिद्धम् । कथं परिषितमाख्यत् । मापरिविषर्यत् । द्वित्वे सत्युपसर्गात् परस्य पूर्वस्यानेन षत्वमुत्तरस्य तु 'नाम्यन्तस्था ० ' ( २।३।१५ ) इत्यादिनेति न दोषः ॥ ५ ॥ सूत्रम्
1
Jain Education International
लिहादिभ्यः ॥ ६ ॥ [ सि० ५|१|५० ]
एभ्योऽच् स्यात् । लेहः शेषः ॥ ६ ॥
२५ 'लिहा०' पृथक् योगो बाधकबाधनार्थः । लेहः शेष इति । एवं सेवः देवः मेघ: ५ मेषः मेघः देहः प्ररोहः न्यग्रोधः १० कोपः गोपः सर्पः नर्त्तः दर्श: १५ । एषु नाम्युपान्त्यलक्षणं कं दृशेस्तु वा शं बाधते । यदि हि नित्यं लिहाद्यच् स्यात्तदा दृश: शविधानमनर्थकं स्यात् । अनिमिष इति बहुलाधिकारात्कोऽपि स्यात् । श्वपचः पारापतः कद्वदः कुत्सितं वदति 'रथवदे' ( ३।२।१३१ ) इति कोः कदादेशः । यद्वदः २० अरीन् व्रणयतीत्यरित्रणा शक्ति: । जारभवा कन्या वरः सारवहः रघूद्वहः । ३० एष्वणं बाधते २५ इति पञ्चविंशतिको लिहादिगणः । बहुवचनमाकृतिगणार्थं नदी भषी लवी गरी चरी तरी दरी सूदी देवी सेवी चोरी गाही एते द्वादश अजन्ता गौरादिषु द्रष्टव्याः । विशिष्टविषयार्थ३२श्चैषां सप्रत्ययानां पाठस्तेन ये निरुपसर्गौपपदा वा पठितास्ते तथा गृह्यन्ते इति ज्ञेयम् ॥ ६ ॥ सूत्रम् १ तेन वशा अमर क्षम रण श्लेष अजगरेत्यदयोऽदर्शिता अपि ज्ञेयाः ।
For Personal & Private Use Only
www.jainelibrary.org