________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे लौकिकाः वाक्यकरणीया परपठितत्वेन विवक्षिताश्च धातवः ८२५ रूपं स्यात् । अस्य तु तन्न स्यात् । पर्थयतीत्यादि तूभयोरपि १३२ । पार्थयति । अपपार्थत् १३३ । 'पद स्थैर्ये' पदति १३४ । 'कदिष् क्रदिष् कुदिष् वैक्लव्ये'। कदते क्रदते क्लदते। षित्त्वादङि कदा इत्यादि १३५ । १३६ । १३७ । 'मन्दि जाड्ये' । मन्दते । क्ये नस्य लुकि मद्यते १३८ । 'खुर्दि गुधि क्रीडायाम्' । खूर्दते १३९ । गोधते । वौ व्यञ्जने इति क्त्वासनोर्वा कित्त्वे गुधित्वा गोधित्वा । जुगुधिष्यते जुगोधिष्यते १४० । 'ऊवेदृग् ऊबुन्धम् आलोचने । वेदते २ । ऊदित्त्वात् वेदित्वा५ वेत्त्वा वेन्नः २ । ऋदित्त्वाद्वाङि अवेदत् अवेदीत् १४१ । बुन्धते २ । ऋदित्त्वाद्वाङि अबुधत् अबुन्धीत् । (आत्मनेपदेऽङोऽभावे) अबुन्धिष्ट १४२ । 'णुदीत् प्रेरणे' । ईदित्त्वादुभयपदित्वम् । 'नुनुदे तनुकण्डुपण्डित' इति । णुदत् इत्यस्य तु परस्मैपदमेव १४३ । 'वध हिंसायाम्' वधति लक्ष्यम् । यथा 'कर्णोऽवध्यत संयुगे' 'वधकोऽपि न विद्यते' । अवधि अत्र णिति कृति बौ च 'न जनवधः' (४।३।५४) इति वृद्धिनिषेधः । अन्यत्र तु स्यात् । क्वाध १४४ । 'णाधृ १० याच्बोपतापैश्वर्याशीष्षु' । णोपदेशत्वात् प्रणाधते । अणोपदेशस्य तु प्रनाधते इत्यादि स्यात् १४५ । 'साधंच षाधंट संसिद्धौ' साध्यत्यन्नम् १४६ । 'षाधंट सनि षपाठात्सस्य षत्वे सिषात्सति' १४७ । 'गृधिण् वञ्चने' । णिजन्तस्यापीष्टिवशात् 'प्रलम्भे गृधिवञ्चेः' (३।३।८९) इत्यात्मनेपदम् । गर्द्धयते बटुम् । सूरिमते तु णिगन्तस्येव । १४८ । 'मन स्तम्भे' । संममान । मनतीत्यादि तु 'नां अभ्यासे' इत्यनेनापि स्यात् १४९ । 'जनक् जनने' । ह्वादिरयम् । जजन्ति । 'जजान गर्भ मघवा' । अन्तर्भूत-१५ णिगर्थत्वादजीजनदित्यर्थः । जज्ञतुः जझुः । जनैचि इत्यस्य तु जायते जज्ञे इत्यादि स्यात् १५० । 'क्षप प्रेरणे' घटादिः । णौ ह्रस्वे, अघटादेरपि 'क्षपण प्रेरणे' इत्यस्यादन्तत्वादृद्ध्यभावे च क्षपयतीति तुल्यमेव रूपं स्यात् । परं बिणम्परे णौ घटादेरिति वा दीर्घ अक्षापि अक्षपि । क्षापम् २ क्षपम् २ । अघटादेस्तु अक्षपि । क्षपम् २ । इत्येव स्यादिति विशेषः । १५१ । 'त्रप लज्जायाम्' घटादिः पयति, अत्रापि अत्रपि त्रापं २ अपं २ । 'त्रपौषि लज्जाया'मित्यघटादेस्तु णावुपान्त्यवृद्धौ त्रापयति । अत्रापि २० त्रापमित्येव न तु त्वत्रपि त्रपम् । १५२ । 'सप समवाये' अषोपदेशत्वाषत्वाभावे सिसापयिषति । षोपदेशस्य तु सिषापयिषति । असीषपदित्यादि स्यात् १५३ । 'हेपृङ् गतौ' हेपते । णौ डे ऋदित्त्वात् उपान्त्यहखाभावे अजिढेपत् १५४ । 'तुप तुम्प तुफ तुम्फ रिंफत् हिंसायाम्' । तुपति । तुपती तपन्ती स्त्री कुले वा। 'अवर्णादन.' (२।१।११५) इति वान्तादेशः । भौवादिकतुपेस्तु तोपतीति स्यात् । इङयोस्तु शतुः 'इयशवः' (२।१।११६) इति नित्यमन्तादेशे तुपन्तीत्येकमेव रूपं स्यात् । २५ तुम्पति प्रस्तुम्पति गौः । शे परे 'नो व्यञ्जनस्य० (४२।४५) इति प्राप्तोऽपि 'नो व्यञ्जनस्येति नलुग्नेप्यते परैः । तुम्पती तुम्पन्ती स्त्री कुले वा । भौवादिकस्य तु तुम्पन्तीत्येकमेव रूपम् । तुफति । भौवादिकस्य तु तोफति। शेषं प्राग्वत् । तुम्फति (शे नस्य लुग्नेष्यते) रिफति १५९ । 'तृप तृम्पत् तृप्तौ' तृपति तृम्पति । शे नलुग नेष्यते १६० । 'स्तुप स्तूपण समुच्छ्राये' । स्तोपयति । अषपाठात् तुस्तोपयिषति अतुस्तुपत् । ष्ट्रपणस्तु स्तूपयति तुष्ट्रपयिषति । अतुष्टूपदित्यादि स्यात् । स्तूपण अषपाठात् अस्तूपयिषति । ३० डे उपान्त्यहवे अतुस्तुपत् । स्तूपयतीत्यादि तु ष्ट्रपणोऽपि स्यात् । १६३ । 'तुपुण् अईने' उदित्त्वान्ने तुम्पयति। किति नलुगभावे तुम्पयते १६४ । 'घर्ब कम्ब खम्ब गम्ब चम्ब तम्ब नम्ब पम्ब बम्ब शम्ब षम्ब गतौ' । घर्बति । क्ते सेट्त्वात् 'क्तेट०' (५।३।१०६) इत्यः घर्बा । एवमग्रेऽपि । कम्ब किति नस्य लुकि कब्यते । कम्बा । शम्ब शम्बा । एवं सर्वेऽपि । पम्ब षस्य सत्वे सम्बति सम्ब्यते १७५ । साम्बण सम्बन्धे साम्बयति । अलि साम्बः । १७६ । 'कुटुम्बिण धारणे' कुटुम्बयते ३५
है. प्रका० उत्त. १०४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org