________________
८२४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुगतौ धेजति ८६ । रिजि स्थानार्जनोजनेषु । ऊर्जनं प्राणनम् । इट आगमत्वेनानित्यत्वादभावे उद्रिक्तः । ८७ । 'ओनजैङ् ब्रीडने । नजते । ओदित्त्वात् क्तस्य तो ने ऐदित्त्वात् क्तयोरिनिषेधात् नग्नः । स्वार्थे के स्त्रीत्वे नग्निकाऽरजाः स्त्री ८८ । 'मृजैकि संपर्चने' मृक्ते । ऐदित्त्वात् इनिषेधे मृक्तः २। ८९ । 'वृजैप वर्जने । अन्तौ वृञ्जन्ति ९० । 'मर्जण शब्दे' क्ते मर्जिता रसाला ९१ । शौट ५गर्वे' । ऋदित्त्वात् डे अशुशौटत् ९२ । 'यौट सम्बन्धे' । सम्बन्धः श्लेषः । यौटति । अयुयौटत् ।
णके यौटकं युग्मम् ९३ । 'मेट नेट्ट म्लेट लौट्ट उन्मादे' । मेटति अमिमेटत् इत्यादि ९७ । 'स्फटु विशरणे । स्फुण्टति वस्त्रम् ९८ । 'मुटु प्रमर्दने' मुण्टति । अचि मुण्टः । ते हुंति कुण्टमुण्टा ९९ । 'नट नृतौं' अणोपदेशत्वात् प्रनटति णौ प्रनाटयति नृतावेवास्य घटादित्वात्
१०० । णिटि नतौ च' चानृतौ णोपदेशत्वात् 'अदुपसर्ग०' (२।३।७७) इति णत्वे प्रणयते १०१०१ । 'अल्टि अति हिंसातिक्रमयोः । सनि इटि स्टेर्द्वित्वे अतिट्टिषते । अट्ट इति दोपान्त्यस्य
तु सनि इटि 'न बदन०' (४।१।५) इति दस्य द्वित्वनिषेधात् स्वरादेरिति द्वितीयांशस्य टेरेव द्वित्वे 'तवर्गस्य.' (१।३।६०) इति देर्डत्वे 'अघोषे प्रथम' (११३५०) इति डस्य टत्वे अट्टिटिषते । अट्टते इत्यादि तूभयोरपि १०२ अति सनि इटि ट्तेर्द्वित्वे अटिट्टिषते । किपि 'पदस्य' (२।१६८९) इति संयोगान्तलोपे अट् अद् इति दान्त दोपात्न्यस्य तु अत इति स्यात् १०३ । १५ मिटुण स्नेहने' मिण्टयति १०४ । 'सुट्टण् अनादरे' १०५ । 'शटि शलिण् श्लाघायाम्' शाटयते १०६ ।
शालयते १०७ । 'रुठि प्रतिघाते' रोठते । द्यतादिरयं । ततोऽद्यतन्यां वात्मनेपदे 'लदियतादि०' (३।४।६४) इत्यङि अरुठत् अरोठिष्ट । १०८ । ('वुठुण हिंसाया' वुण्ठयति) १०९ । 'चुडु अल्पीभावे' । चुण्डति । अचि चुण्डः ११० । 'पिड संघातशब्दयोः' अचि पेडा मञ्जषा १११ । 'कड्डु कार्कश्ये' किपि संयोगान्तलोपे कड् २ । ११२ । 'अड्डु अभियोगे' विपि अड् २ । ११३ । 'चुडु २० हावकरणे' हावो भावसूचनं क्विपि चुड् चुट् । चुड् इत्यस्य तु चुद् चुत् । चुडुतीत्युभयोरपि ११४ । 'तुड्ड तोडने तोडनं दारणम् । यथा कविरहस्ये 'तुडत्यंहः सकलमचिरात्तोडयत्यश्रियं च। ११५ । बिधिवडा अव्यक्ते शब्दे । श्वेडति । अचि क्ष्वेडो विषम् । भिदाद्यङि क्ष्वेडा सिंहनादः ११६ । 'बिक्ष्विडाङ् मोचनस्नेहनयोः' । द्युतादिरयम् । क्ष्वेडते । अद्यतन्यां अधिवडत् अक्ष्वेडिष्ट ।
शीलाद्यर्थे इडित इत्यने प्रक्ष्वेडनः । सर्वलोहमयो बाणः ११७ । 'अड्ट व्याप्तौ' । अणोति ११८ । २५ 'ओलडु लडुण् उत्क्षेपे' । लण्डयति । ओदित्करणबलादिड्व्यवधानेपि 'सूयत्याद्योदितः' (४।२।७०)
इति तो नत्वे लण्डिनः २ । णिचोऽनित्यत्वादभावे लण्डति । णिचिटोरनित्यत्वादभावे ओदित्त्वात्तस्य नत्वे लण्ड्णः २ । यदि तु ओकारस्य नानुबन्धत्वं किन्तु धात्वंशत्वं तदा ओलण्डयति ओलण्डितः २ । ओलण्डना इत्यादि स्यात् ११९ । 'लडुण अवलन्दयत्युष्ट्रम्' । १२० । 'त्रुडिण् छेदने'।
उनोडयते तृणम् १२१ । 'फण गतौ' । अघटादिरयं । णौ फाणयति । स्नेहनार्थोऽप्ययं फाणयति घटम् ३० निःस्नेहयतीत्यर्थः । फाण्यते द्रवत्वादिति फाणितम् १२२ । 'अणिच् प्राणने' । प्राणनं जीवनम् ।
अण्यते १२३ । 'घृणू धणूयी दीप्तौ' । 'न तिकि दीर्घश्च' (४।२।५९) इति दीर्घनिषेधे 'यमिरमि०' इति नलुग् निषेधे घृण्टिः १२४ । घणूते १२५ । 'इतु बन्धने । इन्तति १२६ । 'ज्युति भासने' उणादौ इति ज्योतिः । १२७ । 'कितक् ज्ञाने' ह्वादिः चिकेत्ति १२८ । 'पतिंच ऐश्वर्ये' पत्यते पतिः १२९ । 'वावृतूचि वरणे' ततो वावृत्यमानसेति भट्टिकाव्ये । उदित्त्वात् क्त्वि वावृत्त्वा वावर्तित्वा ।
क्तयोर्नेट् । वृते तु वृत्तवावृत्तौ अभिधानचिन्तामणौ १३० । 'ध्वर्त्तण गतौ' । षपाठात्सस्य ३६षत्वे सिध्वर्त्तयिषति १३१ । 'पर्थ पार्थ प्रक्षेपणे' । अपपर्थत् । पृथणस्तु अपीपृथदिति द्वितीय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org