________________
८२२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
कर्त्तयति कर्त्तापयति ४ कर्त्रयति कर्त्रापयति ५ । कच्छयति कच्छापयति ६ । 'थ शरण दौर्बल्ये' । श्लथयति । अशश्लथत् । अदन्तत्वात्क्रमेण वृद्धिसन्वद्भावौ न, एवमग्रेऽपि ज्ञेयम् ७ । शरयति । ङे अशशरत् ८ । 'छद्णू संवरणे' अर्जन एव छदेर्घटादित्वादुर्जने छदयतीति स्यात्परमर्थान्तरे छादयतीत्येव स्यादस्य त्वदन्तत्वात्संवरणादिरूपार्थान्तरेऽपि छदयतीति सिद्धम् । तथास्यादन्तस्य समान५ लोपित्वात् के अचच्छददिति स्यात् । अनदन्तस्य तु समानलोपित्वाभावात्सन्वद्भावाभावे अचिच्छददिति ९ । 'लभ प्रेरणे' 'णिवेत्ति ० ' ( ५|३ | १११ ) इत्यने विलभना १० | 'श्रपण् पाके' श्रपयति । अशश्रपत् । ते निपातनात् शृतं हविः क्षीरं वा ११ । 'खोदण् क्षेपे' खोदयति । अचुखोदत् १२ । 'स्तन ध्वन स्वन स्यम शब्दे' अनेकस्वरत्वाद्यङ् न स्यात् । परोक्षायाश्चामि स्तनाश्ञ्चकारेत्यादि । 'निन्दहिंस०' इति णके स्तनक: १३ । १४ । १५ । १६ । 'म ष्टम वैकुव्ये' । षोपदे१० शावेतौ । अत्र हि षम १ ष्टम २ षेक ३ व ४ षाधिं ५ षन्ति ६ पुम्भि ७ पुरि ८ पिलि ९ षान्त्वि १० ष्णुसि ११ ष्णसि १२ हि १३ हि १४ क्षय: १५ (धातुपाठे सादयोऽपि ) षोपदेशा - स्तथा च 'षः सोऽष्ठयै ० ' (२।३।९८) इति सस्य कृतत्वेन 'नाम्यन्तस्था ० ' (२।३।१५) इति षत्वम् । यथात्र सिषमिषति तिष्टमिषति । ङे अससमत् अतस्तमत् । समाचार स्तमाभ्वकार १७ । १८ । 'ललणू ईप्सायाम्' । ङे अलललत् । 'ललिण् ईप्सायामित्यस्य त्वनदन्तस्यालीललतेति १९ । 'मलण् १५ धारणे' मलयति । 'युवर्ण ० ' इत्यलि परिमल : २० । वल्पुल वल्पूल पल्पुल परपूल वत्पूलण् लवनपवनयो:' । पञ्चाप्येते ओष्ठ्यमध्याः । वल्पूलयति क्षेत्रं सबुसधान्यं वा । २५ । 'कुमालण् क्रीडायाम्' कुमालयति । अचि सुकुमालः । २६ । 'पशण' अनुपसर्गो, वा अदन्तः । अयं चात्रानिर्दिष्टार्थोपि कैश्वित्यर्थ इष्टः । पश्यति पाशयति । अपपशत् अपीपशत् । अनुपसर्ग इति किम् ? प्रपशति प्रपशते । पशी इति सौत्रधातोरुभयपदिनो रूपम् २७ । 'शशण कान्तौ' शशयति शशनम् 'युवर्ण ० ' २० ( ५।३।२८ ) इत्यलि शशः २८ । 'अंसणू विभाजने' व्यंसयति मयूरव्यंसकः । २९ । ‘गहण् गहने' गहयति गहापयतीत्यपि ३० । इति त्रिंशददन्ताः 'गाक् जन्मस्तुत्योः' । ह्रादिरयम् । 'हवः शिति' ( ४।१।१२ ) इति द्वित्वे जगाति ३१ । 'माङ्च माने' मायते । श्यस्य शित्वादत्र ‘ईर्व्यञ्जनेऽयपि’ ( ४।३।९७ ) इति इत्वं न तत्राशितीत्युक्तत्वात् 'नेंमादा० ' (२।३।७९) इति णत्वे प्रणिमायते ३२ । 'किक् ज्ञाने' ह्वादित्वात् चिकेति ३३ । 'क्षि जिरिट् हिंसायाम्' क्षिणोति । २५ क्षिणी हिंसायामित्यस्य तु गुणे क्षेणोतीति स्यात् । ३४ । जिरिणोति ३५ । 'चिगण चये' । अयं चुरादिरपि घटादिः । घटादेर्हस्व इति ह्रस्वत्वे चययति 'चिस्फुरो ० ' रित्यात्वं त्वस्य नेष्यते परैः ञिणम्परेऽनुवादार्थे अचायि - अचयि । चायं २ चयं २ । णिचोऽनित्यत्वादभावे चयति चयते । अचुराद्यघटादेर्श्विग्ट् इत्यस्य तु चिनोति चिनुते । णौ चिस्फुरोरित्यात्वविकल्पाच्चापयति चाययति । ञिणम्परे तु णौ अचापि अचायि । चापं २ । चायं चायमिति स्यात् ३६ । 'दीधी कि दीप्तिदेव३० नयो:' । दीधीते क्तौ निपातनाद्दीधितिः ३७ । 'ई वेवीकि प्रजनकान्त्य सनखादनेषु' । 'ईते गौः ' । प्रथमगर्भ गृह्णातीत्याद्यर्थः । ३८ । एवं वेवीते ३९ । 'क्षीषश् हिंसायाम्' क्षीणाति ४० । त्रींश् वरणे' 'श्रींश् भरणे' । एतौ वादी । 'वादेर्हस्वः' ( ४।२।१०५ ) इति ह्रस्वे व्रिणाति णिति । अवादिभ्यां त्वाभ्यां व्रीणाति श्रीणातीत्यादि स्यात् । ४२ । 'लींश् लेषणे' । ओष्ठवोपान्त्योऽयम् । वादिर्वादिश्च । 'वादित्वाद् ह्रस्वो ल्वादित्वात् तो नः । प्लिनाति । प्लीन: २ । प्लीनि: ४३ । 'ल्वींशू aaौ' । अयं वादित्वादिबाह्यः हखाभावे ल्वीनाति । तो नत्वाभावे स्वीतः ४४ । 'त्रीण वयो३६हानौ' । युजादिरयम् । णिविकल्पे । श्राययति । जयति । 'जणू' जारयति जरयतीति स्यात् ४५ |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org