________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे लौकिकाः वाक्यकरणीया परपठितत्वेन विवक्षिताश्च धानवः ८२१ हिंसायाम्' । लोसति ७३ । 'पसी गतिबन्धननिवासेषु' पसते २ गतौ कुटिलार्थे यङि 'जपजभ.' इत्यत्र दन्त्यात्परस्यापि पस इष्टत्वान्म्वागमे पम्पस्यते । लुपि पम्पसीति पम्पस्ति । बन्धने बाहुलकात् खार्थे णिचि पासयति पाशैरश्वम् । निवासे उणादौ मशीति (३६०) तादौ ये पस्त्यं गृहम् ७४ । 'भसक् भर्त्सनदीप्त्योः' हादिरयं । 'हवः शिति' (४।१।१२) इति द्वित्वे बभस्ति । क्ते भसितम् ७५ । इति सान्तात्रयः । ३ । 'लुह हिंसामोहयोः' । लोहति अचि लोहं ७६ । 'रिहं हिंसाकत्थ-५ नादौ' । कत्थनं श्लाघा ७७ । इति हान्तौ द्वौ । 'चुक्ष शौचे' । चुक्षति । क्ते चुक्षितः । 'क्तेटो गुरोः' (५।३।१०६) इति अप्रत्यये चुक्षा शीलमस्य 'अस्थाच्छनादे'रित्यङि चोक्षः । तस्य भावः कर्म वा 'पतिराजान्त०' (७।१।६०) इति ट्यणि चौक्ष्यम् ७८ । 'विक्षि विद्योपादाने' विक्षते विक्षितः । 'क्तेट' इति अप्रत्यये विक्षा ७९ । इति क्षान्तौ द्वौ । इति स्तम्भवादयः सौत्राः एकोनाशीतिः।
अथ लौकिका उच्यन्ते क्लविवर्जाश्च तेऽदन्ताः । 'क्लवि वैक्लव्ये १ 'वीजण् व्यजने' २ । १० 'हीलण निन्दायाम्' ३ । अन्दोलण् हिन्दोलण् प्रेवोलण दोलने । दोलनमुत्क्षेपः ६ । 'रूषण रूक्षणव्याप्त्योः' ७ इति लौकिकाः।
अथ वाक्यकरणीयाः। चुलुम्प छेदने १ । कुच उद्भेदने २ । घटण् बन्धने ३ । उल्लुडण् उट्टीकने अदन्तः । यथा माघे 'तावत् स्वरः प्रखरमुल्लुडयाञ्चकार' ४ । 'अवधीरण अवज्ञायाम् । 'तन्न धर्ममवधीरय धीरः' ५ । 'उद्धृषत् उल्लकस् उच्छसने' । उद्भुषणमुल्लकसनं च रोमाञ्चः ७ । इति १५ वाक्यकरणीयाः।
इह च केचिल्लौकिका अपि वाक्यकरणीयेषु । तेपि केचिल्लौकिकेषु उक्ता
दृश्यन्ते । तेनैषां दृढो विवेक एतत्संज्ञान्वर्थश्च सम्प्रदायवियोऽवसेयः। अथैभ्यस्त्रिविधेभ्यः पृथगेव ये धातुपारायणे उक्ता अदन्ता धातवः, ते उच्यन्ते । 'खचण् बन्धने' । खचयति । अस्यादन्तत्वेनाल्लुकः स्थानित्वादुपान्यवृद्ध्यभावः १ । डे अकखचत् । 'ओजण् २० बलतेजसोः' ओजयति २ । 'स्फुटण प्राकट्ये' स्फुटयत्यर्थम् ३ । 'तुच्छण् आच्छादने' ४ । 'स्कन्धण् समाहारे' ५ । स्फुटादेर्नाम्नो णिचि स्फुटयतीत्यादि सिद्धावपि स्फुटण्प्रभृतीनामदन्तेषु पाठ इष्टार्थप्रत्यये सति णिजं विनापि प्रयोगार्थः । अदन्तत्वाचैषामनेकखरकार्याणि । स्फुटः परोक्षाया आमि स्फुटायाञ्चकारेत्यादि । शीलाद्यर्थे 'निन्दहिंस०' (५।२।६८) इति णके स्फुटक इत्यादि च स्यात् । अपि चैवंप्रकाराणां धातूनामतो लुकं बाधित्वाऽनुपान्त्यस्याप्यत उत्पलमतीयेन 'अतो णिति' इति २५ सूत्रेण वृद्धौ प्वागमे स्फुटापयति तुच्छापयति स्कन्धापयतीप्यते परैः ५ । 'ऊषण छेदने' ऊषयति के औषिषत् ६ इत्यादि । अथ कुशु पिशु कुसु दसु सु अनुक्तार्थाः । एषामेवंविधानामन्येषां चार्थो यथालक्ष्यं निर्णेयः।
अथ ये धातवः श्रीसूरिभिर्धातुपाठेऽन्यथा पठितास्सन्ति परैरन्यथा ये च परैरधिका एव पठिताः सन्ति, ते परपठितत्वेन विवक्षिता इहोच्यन्ते । तत्रादौ त्रिंशददन्ताः 'खेडण् लक्षणे' । अदन्त-३० त्वादुपान्त्यस्येति हस्खाभावे डे अचिखेडत् १ । 'पणण् विक्रये'। ण्यन्तात् 'युवर्णवृदृवशरण' ( ५।३। २८) इति अलि अदन्तत्वाण्णौ वृद्ध्यभावे विपणो विक्रयः । 'पणि'व्यवहारस्तुत्योरित्यस्य त्वलोऽप्राप्त्या घनि विपाण इति स्यात् २ । 'वित्तण दाने' । वित्तयति । अदन्तत्व विधानसामर्थ्यादतो लुगभावेऽनुपान्त्यस्याप्यतो वृद्धौ वित्तापयतीत्यपि ३ । एवं वक्ष्यमाणेष्वपि । 'कर्त्त कत्र कच्छण् शैथिल्ये' ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org