________________
८२०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु३९ । 'सुन्द हिंसासौन्दर्ययोः' । सुन्दति अचि सुन्दोपसुन्दौ दैत्यौ मिथो युवा मृतौ ४० । 'कदि वैलव्यछेदनयोः' कदते । अनटि कदनम् ४१ । इति दान्ताश्चत्वारः ४१ । 'मिधृग् मेधाहिंसासंगमेषु' मेधति मेधते 'वौ व्यञ्जनादेः०' (४।३।२५) इति क्त्वो वा कित्त्वे मिधित्वा मेधित्वा । भिदादित्वाद्यङि निपातनात् मेधा ४२ इति धान्तः । 'धनक धान्ये' धान्योपलक्षितायां क्रियायामित्यर्थः । ५यथा ‘णील वर्णे' इत्यस्य वर्णोपलक्षितायां क्रियायामित्यर्थो धातुपारायणे व्याख्यातः । अन्यथा तु क्रियार्थत्वाद्धातुत्वं न स्यात् । ह्वादिरयं 'हवः शिति' (४।१।१२) इति द्विः दधन्ति ४३ । इति नान्तः । 'रिप कुत्सायाम्' । रेपति ४४ । 'कप कम्पने' कपति ४५ । 'क्षुप ह्रासे' क्षोपति 'नाम्युपान्त्य०' (५।१।५४ ) इति के क्षुपो ह्रस्वशाखा ४६ । 'टुप संरम्भे' टोपति घमि आटोपः । इति पान्ताश्चत्वारः । ४७ । 'बिम्ब दीप्तौ' बिम्बति ४८ इति बान्तः । 'रिभि स्तुम्भू स्कम्भू स्तम्भे'। १० विरेभते स्म । 'क्षुब्धविरिब्ध०' (४।४।७०) इति निपातनादिडभावे विरिब्धः स्वरः । विरिभितमन्यत्
४९ । स्तुम्भू भान्वोः स्तुभ्नाति स्तुभ्नोति । उदित्त्वावटि स्तुब्ध्वा स्तुम्भित्वा । वेट्वात् क्तयोरिडभावे स्तुब्धः २ । ५० । स्कम्भू श्राश्वोः स्कनः (२।३।५५) वेः परस्य स्कनातेः सस्य नित्यं षः स्यात् । भानिर्देशः किम् ? सश्नोर्मा भूत् इति षत्वे विष्कम्नाति । नौ तु षत्वाभावे विस्क
नोति । क्ये विस्कभ्यते । क्त्वि ऊदित्त्वाद्वेटि स्कब्ध्वा स्कम्भित्वा । क्तयोर्नेट् स्कन्धः २ । ५१ । १५ 'स्कुम्भू विस्तारे च' चात् स्तम्भे । स्कुनाति स्कुश्नोति । क्ये स्कुभ्यते । स्कुब्ध्वा स्कुम्भित्वा । स्कुब्धः
२। लक्ष्यं यथा 'मुसलक्षेपहुंकारस्तोभैः कलमखण्डिनि । कुचविष्कम्भमुत्तनन्निःस्कुन्नातीव ते स्मरः॥१॥' स्तोभाः विश्रामाः। विष्कम्भः पृथुत्वं उत्तन्नन्नू/कुर्वन् निःस्कुनाति नितरां विस्तारयति । ५२ । 'दभ वंचने' दति । 'आसुयुवपि०' (५।१।२०) इति ध्यणि दाभ्यो वश्चनीयः । बाहुलकात् स्वार्थे णिचि दाभयति ५३ । इति भान्ताः पञ्च ५ । 'डिम हिंसायाम्' डेमति । 'नाम्यु२०पान्त्यः ' (५।१।५४) इति के डिमः प्रबन्धविशेषः । ५४ । 'धम शब्दे' धमति ५५ । इति
मान्तौ द्वौ । 'पीय पाने' पीयति ५६ । इति यान्तः । 'उर गतौ' ओरति ५७ । 'तुर त्वरणे' तोरति । आयूर्वस्यास्य 'नाम्युपान्त्यः' इति के आतुरो रोगी । केवलस्य तु तुरः शीघ्रगामी । तुरो गच्छतीति नानो गम इति तुरगः ५८ । 'तन्द्रि सादमोहयोः' । सादो विषण्णता । मोहो मौढ्यम् । तन्द्रते
ततन्द्रे । तन्द्रितः । 'क्तेटो गुरोः०' (५।३।१०६) इत्यप्रत्यये तन्द्रा आलस्यम् । इति रान्तात्रयः । २५'चुल परिवेष्टने' । 'नाम्युपान्त्यः' इति के निचुलः । अचि चोलः ६० ॥ 'उल दाहे' ६१ 'लुल कम्पने'
६२ 'सल्ल गतौ' ६३ 'हल्ल घूर्णने' ६४ (ओलतीत्यादि)। भिलण भेदे भेलयति । णिचोऽनित्यत्वात् भेलस्तरण्डः । डलयोरैक्ये भेडोऽजः ६५ इति लान्ताः षट् ६ । 'धन्व तव गतौ ।' धन्वति ६६ । तवति ६७ इति वान्तौ द्वौ २ । 'पशी स्पशी बाधनग्रथनयोश्च' बाधनं प्रतीघातः चाद्गतौ । पशति
२ । कुटिलार्थे यङि 'जपजभ०' (४।१।५२) इति म्वागमे पम्पश्यते । यङ्लुपि तु पम्पशीति ३० पम्पष्टि ६८ । स्पशते २ । णौ डे सन्वद्भावापवादे 'स्मृहत्वर०' (४।१।६५) इति पूर्वस्य अत्वे
अपस्पशत् । 'णौ दान्तशान्त०' (४।४।७४) इति विकल्पेन निपातनात् स्पष्टं स्पाशितम् । अचि स्पशश्चरः। घनि स्पाशो बन्धः लक्ष्यं यथा 'सेयमुभयतः स्पाशा रज्जुः' । ६९ । 'ऋशत् गतिस्तुत्योः' ।
ऋशति ७० इति शान्तः । 'भिष भये' भेषति ७१ । 'युषी सेवने' योषति २ । उणादौ ह्रसू० ३४(८८७) इतीति योषित् । युष्मसीति (८९९) किदिति मदि युष्मत् ७२ इति षान्तौ द्वौ २ । 'लुस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org