________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे सौत्रा धातवः १० । भावकर्मणोः अस्तम्भि अस्तम्भिषाताम् । णिगि स्तम्भयति । अवष्टम्भयति । यङि तास्तभ्यते अवताष्टभ्यते । सनि तिष्टम्भिषति । अवतिष्टम्भिषति । शतरि स्तन्नत् स्तम्भवत् । इह वर्णक्रमस्य प्रतिज्ञानेऽपि स्तम्भादयः सौत्रा इति वृद्धोक्तेः स्तम्भ आदावुक्तः । एवं लौकिकवाक्यकरणीयानां धुरि छविचुलम्पावपि । यदाहुः कुव्यादयो लौकिकाचुलम्पादयो वाक्यकरणीया इति । 'तन्द्रा आलस्ये' तन्द्राति 'शीशद्धा०' (५।२।३७) इत्यालौ तन्द्रालुः इत्यादन्तः २ । 'कि ज्ञाने' कयति ३ ।५ 'पति पतने । आलौ पतयालुः ४ । 'गृहि ग्रहणे' गृहयालुः ५ । गृहयालुः करलीलयाश्रियः नैषधीये। 'चिरिट् हिंसायाम् । चिरिणोति इति इदन्ताश्चत्वारः ४ । 'जु वेगे'। जवति । अनुस्खारेत्त्वादिडभावे अजौषीत् । 'जुङ् गता'वित्यस्य तु जवते अजोष्ट इत्यादि ७ । 'क्रुङ गतौ' । ऋवते । क्रव्यम् ८ । इत्युदन्तौ द्वौ । 'भूङ् प्राप्तौ' । 'भूः प्राप्तौ णि (३।४।१९) भुवो धातोः प्राप्तावर्थे णिङ् प्रत्ययो भवति । भावयते भवते प्राप्नोतीत्यर्थः । इत्यूदन्तः ९ । 'तर्क विचारें'। अकारः श्रुति-१० सुखार्थः । एवमग्रेप्यदन्तवर्ज वाच्यम् । तर्कति १० । 'कक कर्क हासे' । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) इत्यप्रत्यये कक्का अचि कक्कः ११ । कर्कति १२ । 'सिक सेचने । सेकति १३ । 'मर्क संप्रच्छने' मर्कति १४ । 'चकि भ्रमणे । चकते १५ । 'मकि गतौ' मकते १६ । इति कान्ताः सप्त ७ । रिखिलिखेस्तुल्यार्थः । रेखति चित्रकृत् । 'मिदादयः' (५।३।१०८) इत्यङि निपातनादेखा १७ । इति खान्तः । 'कगे मिथःसम्प्रहारे' । कगति । बहुलमेतन्निदर्शनमिति स्वार्थे णिचि १५ रुणम् परे 'कगेवनू० (४।२।२५) इति वा दीर्घे कागं २ कगं २ । मिथोऽभीक्ष्णं प्रहृयेत्यर्थः । अयं मौने इत्येके । सर्वक्रियास्वित्येके । यथा कगति कोऽर्थः ? याति भुले स्वपितीत्यादि । ऐदित्त्वेन 'न विजागृ०' (४।३।४९) इति निषेधार्थ 'व्यञ्जनादेर्वोपान्त्यस्यातः' (४।३।४७) इति वृद्ध्यभावे अकगीत् । १८ । इति गान्त एकः । 'अर्थ मूल्ये' । महार्थः । 'कलां नार्घति षोडशीम्' । १९ । इति घान्तः । 'मर्चण् शब्दे । मर्चयति २० । इति चान्तः । 'मञ्ज सौन्दर्ये च' चात् शब्दे, मञ्जति २० २१ । 'पञ्ज रोघे' पञ्जति । 'नाम्नि पुंसि च' (५।३।१२१) इति णके पञ्जिका २२ । 'कञ्ज शब्दे' कञ्जति २३ । इति जान्तात्रयः । ३ । 'रण्द प्राणहरणे' । रण्टति २४ । 'घटु शब्दे' उदित्त्वान्नागमे घण्टति २५ । 'मट हासे' हासो ह्रस्वत्वम् । मटति २६ । इति टान्तात्रयः ३ । 'कुठ छेदने' । कोठति । 'नाम्युपान्त्यः' (५।१५४) इति के कुठो घृक्षः २७ । इति ठान्तः । 'क्रुड शब्दे'। क्रोडति । लिहादिभ्यः (५।१।५०) इत्यचि क्रोडः २८ । 'उड संघाते ओडति' २९ । 'वड आग्रहणे' २५ वडति ३० । 'णडण् भ्रंशे' णोपदेशोऽयम् । अत्र हि णडि णटि गुदि णाधयश्चत्वारो नादयोऽपि णोपदेशाः । 'पाठे धात्वादे' (२।३।९७) इति णो ने तस्य 'अदुरुपसर्ग' (२।३१७७) इति णत्वं णोपदेशफलम् । नडति । प्रणडति। णिचोऽनित्यत्वादभावे अचि नडस्तृणजातिः। घधि डो लत्वे प्रणालः। ३१ इति डान्ताश्चत्वारः ४ । 'किणत् शब्दगत्योः' किणति । 'नानि पुंसि च' (५।३।१२१) इति णके केणिका पटकुटी ३२ । इति णान्तः । 'कुत गुंफप्रीत्योः' कोतति ३३ । 'पुत गतौ' पोतति ३० ३४ ॥ 'लत आदाने लतति ३५ । 'सात सुखे' सातति । णिगि 'साहिसाति०' (५।११५९) इति अनुपसर्गात् शे सातयः सुखकारी ३६ । इति सान्ताश्चत्वारः ४ । 'कथ वाक्यप्रबन्धे' णिगि बाहुलकात् स्वार्थे णिचि वा । 'भूरिदाक्षिण्यसम्पन्नं यत्त्वं सान्त्वमचीकथः।' कथणिति चुराद्यदन्तस्य त्वचका इति स्यात् ३७ । इति थान्तः । 'उद् आघाते' ओदति ३८ । 'क्षद हिंसावरणयोः' क्षदति ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org