________________
८१८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुकारस्य लुग् न भवति विधानसामर्थ्यात् । आदिशब्दसंसर्गात् 'श्वेताश्वाश्वतरगालोडिताहरकस्याश्वतरेतकलुक्' (३।४।४५) श्वेताश्व अश्वतर गालोडित आह्वरक इत्येतेषां चतुर्णा णिच् सन्नियोगे यथासङ्ख्यं अश्व तर इ तक इत्येषां चतुर्णा लुग् भवति । तत्र श्वेताश्वः प्रतीतः । अश्वतरो वेगसरः । 'वेसरोऽश्वतरो वेगसरश्चेति वचनात् गालोडितं गोदोहनं विलोडनं वा । आह्वनक ५कुटिलं वाक्यं कुटिलः पुरुषो वेति क्रियारत्नसमुच्चये । श्वेताश्वमाचष्टे करोति वा श्वेताश्वेनातिक्रामतीति वा श्वेतयति । एवमश्वयति । गालोडितमाचष्टे करोति वा गालोडयति । एवमाह्वरयति । लुगथं वचनम् , णिः सर्वत्र पूर्वेण सिद्ध एव । *प्रियस्थिरेत्यादि । एतच्च सर्व प्राक् स्फुटीकृतमेव ॥१६॥
* इति नामधातुप्रक्रिया । यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः । तस्यां शासितसाधुशब्दसरणौ खोपज्ञसत्प्रक्रियावृत्तौ नामजधातुभिर्विरचिताः पूर्णाः सुखं धातवः ॥ १ ॥
___-* अथ सौत्रा धातव उच्यन्ते । *तत्र कण्ड्डादयः प्रागुक्ताः । अथ शेषाः प्राग्वद्वर्णक्रमेण प्रतिपाद्यन्ते । तत्र कचटतपादि१५ वर्णानुबन्धाददादिप्रभृति तत्तद्गणकार्यम् , तदभावे तु शत् । इङित्त्वादीगित्वाच्चात्मनेपद्युभयपदित्वम् ,
तदभावे परस्मैपदित्वमिति ज्ञेयम् । 'स्तम्भू स्तम्भे । स्तम्भः क्रियानिरोधः । स्तभ्नाति स्तभ्नोति । 'स्तम्भू स्तुम्भू स्कम्भू स्कोः श्ना च' (३।४।७८) इति भा श्नु । 'नो व्यञ्जनस्य.' (४।२।४५) इति नलुक् च । क्ये स्तभ्यते । ऊदित्त्वात् क्त्वि वेट् स्तब्ध्वा । सेटः कत्वः 'क्त्वा' (४।३।२९) कित्त्वाभावानलुगभावे स्तम्भित्वा । वेट्त्वात् 'वेटोपतः' (१।४।६२) इतीडिषेधे २० स्तब्धः २ । अद्यतन्यां 'ऋदिच्छुि' (३।४।६५) इति वाङि अस्तभत् अस्तम्भीत् । 'अङ
प्रतिस्तब्धनिस्तब्धेस्तम्भे' (२।३।४१) उपसर्गस्थानाम्यन्तस्थाकवर्गात्परस्य स्तम्भः सकारस्य द्वित्वेऽट्यपि षो भवति । न चेदसौ स्तम्भि. प्रतिस्तब्धे निस्तब्धे च विषये स्यात् । विष्टनाति । प्रतिष्टनाति । 'उदः स्था स्तम्भः सः' (१३।४४) इति सलुकि उत्तध्नाति २
पताकाम् । वितष्टम्भ प्रतितष्टंभ । प्रतिताष्टभ्यते । अभितिष्टम्भिषति । व्यष्टनात् प्रत्यष्टनात् २५ ङादिवर्जनं किम् ? व्यतस्तम्भत् प्रत्यतस्तम्भत् । प्रतिस्तब्धः । निस्तब्धः । 'अवाचाश्रयोगविदूरे' (२।३।४२) अवादुपसर्गात्परस्य स्तम्भः सकारस्याश्रयादिष्वर्थे गम्येषु द्वित्वेप्यट्यपि षः स्यात् । अङे ङि विषयश्चेत् स्तम्भिर्न स्यात् । आश्रय आलम्बनम् । दुर्गमवष्टभ्नाति दुर्गमवष्टभ्यास्ते । अवतष्टम्भ दुर्ग दुगमवाष्टनात् । ऊर्ज औजित्यं अहो वृषलस्यावष्टम्भः । अवष्टब्धो रिपुः
शूरेण । अविदूरमनतिविप्रकृष्टमासन्नमदूरासन्नं च गृह्यते । अवष्टब्धा शरत् । आसन्ना भवतीत्यर्थः । ३० अवष्टब्धे सेने । अवादिति किम् ? प्रस्तब्धः । चकारो डे इत्यस्यानुवृत्त्यर्थः, अनुक्तसमुच्चयार्थश्च; तेन उपष्टम्भः उपष्टम्भकः इत्यादावुपादपि भवति । उपावादित्यकृत्वा चकारेण सूचनमनित्यार्थ तेन उपस्तब्ध इत्यपि भवति । आश्रयादिष्विति किम् ? अवस्तब्धो वृषलः शीतेन । अनङ इत्येव अवा
तस्तभत् । एवं चाद्यतन्यां अवाष्टभत् अवाष्टम्मीत् ५। तस्तम्भ अवतष्टम्भ ६ । स्तभ्यात् अवष्टभ्यात् ३४७ । स्तम्भिता अवष्टम्भिता ८ । स्तम्भिष्यति अवष्टम्भिष्यति ९ । अस्तम्भिण्यत् अवाष्टम्भिष्यत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org