________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे नामधातुप्रक्रिया
८१७
समानलोपित्वात्सन्वद्भावाभावे अपपटत् अललघत् अककपत् अजहरत् इत्याद्येव स्यादित्याहुः । इं उंवा आख्यत् वृद्धौ स्वरादेरिति द्वितीयस्य द्वित्वे च आयियत् आविवत् । ओतुमाख्यत् स्वरलोपस्य स्थानित्वेन तु द्वित्वे औतुतत् । गोनौर्यद्वा गोसहिता नौ 'मयूरव्यंसक०' ( ३|१|११६ ) इति मध्यलोपिसमासे गोनौः तामाख्यत् अन्त्यस्वरादेरिति औलोपे अजूगुनत् । औतः स्थानित्वेनोपान्त्यत्वाभावान्न हस्व इति केचित् । अजूगोनत् । वहेः क्ते ऊढस्तमाख्यत् औजढत् । अत्र परे घित्वे 'हो५ धुट् पदान्ते' (२।१।८२ ) इत्यस्यासत्वे तदाश्रितत्वात् 'अधश्चतुर्थात्तथोर्घः' (२।१।७९ ) इत्यस्याप्यसत्त्वे उत्वधत्वयोरसत्त्वादन्त्यस्वरादिलोपस्य च द्वित्वे स्थानित्वादकारेण सह नानो द्वितीयादिति ति द्विर्वचनम् । एवमूढिमाख्यत् औजित् । केचित्तु अन्त्यस्वरादिलोपस्य स्थानित्वमनिच्छन्तो ह्नि इति द्वित्वे ऊढमूढिमाख्यत् औजिढदित्येव मन्यते । ढि इत्यस्य द्वित्वमित्यन्ये । औडिदत् औडढत् इति कौमुद्याम् । भावकर्मणोः अमुण्डि ञिटि अमुण्डिषातां इटि अमुण्डयिषातां अमुण्डिध्वम् १० अमुण्डवम् अमुण्डयिध्वम् इम् । एवं अप्रकटि अकलि अहलि अपटि अलघि अकपि अहरि अगोनि । कर्मकर्त्तरि अमुमुण्डत् स्वयमेव पोतः । ५ । परोक्षायां मुण्डयाञ्चकार बभूव आस । प्रकटं दृषदं पहुं कलिं लघुं कपिं हरिं वाचख्यौ चकार वा प्रकटयाञ्चकार । दृषयाञ्चकार । एवं पटयां कलयां लघयां कपयां हरयांचकार । भावकर्मणोः मुण्डयाञ्चक्रे बभूवे आहे इत्यादि । आशीः मुण्ड्यात् दृषद्यात् पट्ट्यात् । भावकर्मणोः ञिटि मुण्डिषीष्ट । इटि मुण्डयिषीष्ट । एवं दृषदयिषीष्ट १५ दृषदिषीष्टेत्यादि ७ । श्वस्तन्यां मुण्डयिता दृषयिता । पटयिता । भावकर्मणोः मुण्डयिता मुण्डिता ८ । मुण्डयिष्यति दृषदयिषति । भावकर्मणो मुण्डयिष्यते ९ । अमुण्डयिष्यत् । भावकर्मणो अमुण्डयिष्यत १० । सनि मुमुण्डयिषति । दिदृषदयिषति । शुशूरयिषति । स्वापं चिकीर्षति सिवा - पयिषति । अत्र 'स्वपो णावु : ' ( ४।१।६२ ) इति पूर्वस्य उः । णेर्घना व्यवधानात् । इं उं वाख्यातुमिच्छति आयिययिषति आविवयिषति । उनुं उडुं वा आख्यातुमिच्छति उनुनयिषति । उडुडयिषति । २० अत्रान्त्यस्वरलोपस्य स्थानित्वेन नुडु द्वित्वम् । प्रकटं कर्त्तुमिच्छति पिप्रकटयिषति । प्रचिकटयिषतीत्यादि । कवलं धवलं च कर्त्तुमिच्छति चिकवलयिषति । दिधवलयिषति । सेनयाभियातुमिच्छति अभिषिषेणयिषति । अभ्यषिषेणयिषीत । णिगि तु मुण्डयन्तं प्रयुङ्क्ते णेर्लुकि मुण्डयति पटयतीत्याद्येव प्राग्वत् । मुण्डयित्वा । सप्रत्ययस्य प्रादेर्धातुत्वाद्यभावे प्रकटयित्वा । प्रकटयिता । प्रकटयितुम् । प्रकटयितव्यम् । सेट्र्क्तयोरिति णेलुकि प्रकटितः । अत्रादिशब्दसंसर्गात् 'व्रताद्भुजितन्निवृत्त्योः ' २५ ( ३।४।४३ ) व्रतं शास्त्रविहितो नियमः । व्रतशब्दाद्भोजने तन्निवृत्तौ च वर्तमानात् कृगादिष्वर्थे णिप्रत्ययो भवति बहुलम् । पय एव मया भोक्तव्यमिति व्रतं करोति गृह्णाति वा पयोव्रतयति । सावद्यान्नं मया न भोक्तव्यमिति व्रतं करोति गृह्णाति वा सावधानं व्रतयति । अर्थनियमार्थ
आरम्भः ॥ १५ ॥
अथ णिच्प्रत्यये केषाञ्चित् कार्यविशेषमाह
३०
सत्यार्थवेदस्याः ॥ १६ ॥ सि० ३ | ४|४४ ]
1
एषां णिच् सन्नियोगे आः स्यात् । सत्यापयति । अर्थापयति । वेदापयति । *प्रियस्थिरेत्यादिना प्राद्यादेशे प्रियमाचष्टे प्रापयति इत्यादि । स्थूलदूरेत्यादिना स्थूलमाचष्टे स्थवयति ॥ १६ ॥ ** इति नामधातुप्रक्रिया ।
'सत्या०' सत्यमाचष्टे करोति वा सत्यापयति । एवमर्थापयति वेदापयति । अन्त्यस्वरादेरित्या - ३५ है० प्रका० उत्त० १०३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org