________________
८१६
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
वस्त्रं वस्त्रेण वा समाच्छादयति संवस्त्रयति । वस्त्रं परिदधाति परिवस्त्रयति । तृणान्युत्प्लुत्य शातयति उत्तणयति । हस्तेनायति क्रामति अतिहस्तयति एवमश्वयति । वर्मणा सन्नह्यते संवर्मयति । तुलां रोपयति तुलयति कनकम् । वीणया उपगायति उपवीणयति । सेनयाऽभियाति 'स्थासेनी'ति षत्वे अभिषेणयति । चूर्णैरवध्वंसयति अवकिरति वा अवचूर्णयति । तूलैरनुकुष्णात्य व कुष्णात्यनुगृहा५ त्यवगृह्णाति वा अनुतूलयति अवतूलयति । तूलैः कृत्वा अनुकूलमवाक् च यथा भवति; एवं अन्तरवयवान् बहिर्निष्कासयति पक्कवर्णादाविवेति वास्या छिनत्ति वासयति । परशुना परशयति असिना असयति । श्लोकैरुपस्तौति उपश्लोकयति । हस्तेनापक्षिपति अपहस्तयति । अश्वेन संयुनक्ति समश्वयति । गन्धेनार्चयति गन्धयति । एवं पुष्पयति । बलेन सहते बलयति । शीलेनाचरति शीलयति । एवं सामयति । सान्त्वयति । छन्दसा उपचरति उपमन्त्रयते वा उपच्छन्दयति । पाशेन १० संयच्छति संपाशयति । पाशं पाशाद्वा विमोचयति विपाशयति । शूरो भवति शूरयति । वीर उत्सहते वीरयति । कूलमुल्लङ्घयति उत्कूलयति । कूलं प्रतीपं गच्छति प्रतिकूलयति । अनुकूलयति । लोष्टानवमर्दयति अवलोष्टयति । पुत्रं सूते पुत्रीयतीत्यादि । आख्यानं नलोपाख्यानं कंसबन्धं सीताहरणं रामप्रत्रजनं राजागमनं मृगरमणम् । आरात्रिविवासमाचष्टे इत्यादिषु इन्द्रियाणां जयं क्षीरस्य पानं देवानां यागं धान्यस्य क्रयं धनस्य त्यागं ओदनस्य पाकं करोतीत्यादिषु बहुवचनान्न भवति । १५ इन्द्रियजयं करोतीत्यादि समस्ताभिधानेऽपि न भवति । बहुलवचनादेव । अथ हस्तौ निरस्यति हस्तयते इत्यादिवदुत्पुच्छयते इत्यादावप्युपसर्गाप्रयोगः प्राप्नोति । नैवम् । यत्रानेकविशेषेण विशिष्टा क्रियाप्रत्ययार्थस्तत्र विशेषाभिव्यक्तये युक्त उपसर्गप्रयोगः यथा विपाशयति । संपाशयति । इति । पाशिक्रिया हि विमोचन संयमनाद्यनेकविशेषणविशिष्टा सती प्रत्ययवाच्या । ततश्चोपसर्गप्रयोगाभावे एकतरेणापि विशेषणेन वैशिष्ट्यं न प्रतीयते । यत्र त्वेकविशेषणविशिष्टा क्रिया प्रत्ययार्थस्तत्र सन्देहा२० भावादुपसर्गो न प्रयुज्यते । यथा श्येन इवाचरति श्येनायते । बाष्पमुद्वमति बाष्पायते । हस्तो निरस्यति हस्तयते । पुत्रमिवाचरति पुत्रीयति । यद्येवमतिहस्तयति उपवीणयतीत्यादावेकैक विशेषणविशिष्टत्वादुपसर्गप्रयोगो न प्राप्नोति । नैवम् । अत्र णिच्प्रत्ययस्य करोति आचष्टे अतिक्रामतीत्याद्यनेकार्थत्वात् सन्देहे तदभिव्यक्त्यर्थं उक्त उपसर्गप्रयोगः । यत्र पुनरेकोपसर्गविशिष्टा क्रिया प्रत्ययार्थस्तत्र शब्दशक्तिस्वाभाव्यादेक एवोपसर्गार्थः प्रत्ययार्थेऽन्तर्भवति, द्वितीयस्तूपसर्गेणैव प्रत्याय्यते । २५ यथा भाण्डं समाचिनोति सम्भाण्डयते । वस्त्रं वस्त्रेण वा समाच्छादयति संवत्रयति । तत्रापि शब्दशक्तिस्वाभाव्यात् प्रत्ययेनार्थः प्रतिपाद्यते । न तु समर्थ इति । आभण्ड्यते इत्यादि न भवति । भावकर्मणोः मुण्ड्यते प्रकट्यते । इत्यादि । ह्यस्तन्यां : अमुण्डयत् । अभ्यषेणयत् ४ । अद्यतन्यां अमुमुण्डत् | अभ्यषिषेणत् । 'अन्यस्य' इति यथेच्छं द्वित्वे अपप्रकटत् अप्रचकटत् अप्रकटित् । स्वापमकरोत् असस्वापत् । नानोऽपि 'खपेर्यङ्के च' ( ४।१।८० ) इति वृतमिच्छन्त्यन्ये । असु३० षपत् । अर्यमाख्यत् अयर्यमत् । अदषत् । राजानमतिक्रान्तवान् अत्यरराजत् । लोमान्यनुमृष्टवान् अन्वलुलोमत् । स्वामिनमाख्यत् असस्वामत् । तादृशमाख्यत् अततादृत् । मातरमाख्यत् अममातद् । स्वादुकृतवान् असिस्वदत् । पटुं लघुं कपिं हरिं वा आख्यत् अपीपटत् अलीलघत् अकीकपत् अजीहरत् । अत्रेकारोकारयोः पूर्वमेव वृद्धौ ततोऽन्त्यस्वरादिलोपे समानलोपित्वाभावात् 'उपान्त्यस्यासमानलोपि ० ' ( ४ | ३ | ३५ ) इति यथासम्भवमुपान्त्यहस्वो असमानलोपे सन्वलघुनि ङे' ३५ (४।१।६३ ) इति सन्वद्भावश्च सिद्धः । अन्ये तु नाम्नो वृद्धिमनिच्छन्त इकारोकारयोरेव लोपे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org