________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे नामधातुप्रक्रिया
८१५ तृशब्दस्य लोपाभावः । स्त्रीमाचष्टे स्त्रावयति । रै राययति । गो गवयति । नौ नावयति । सूत्रे ङीस्याद्यघुट्स्वरे एव वस्योत्वं भवतीत्युक्तत्वाद्वस्योत्वाभावे नैकस्वरस्येत्यन्त्यस्वरादिलोपनिषेधे 'ब्णिति' (४।३।५०) इत्युपान्त्यवृद्धौ श्वानयति । ङे अशश्वानत् । कौमुद्यां तु "श्वानमाचष्टे शावयति 'नस्तद्धिते' इति टिलोपो भत्वात्सम्प्रसारणम् । अन्ये तु नस्तद्धिते इति नेहातिदिश्यते । इष्टनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ टेरित्यस्यैव प्रवृत्तेस्तेन शुनयतीति रूपमाहु"रित्युक्तम् । विद्वांसमाचष्टे 'वसुष्मतौ५ च' (२।१।१०५) इति सूत्रे णिक्यवर्जनादुषादेशाभावेऽन्त्यस्वरादिलोपे विद्वयति । डे अविविद्वत् । कौमुद्यां तु “सम्प्रसारणे वृद्धावावादेशे विदावयतीत्यन्ये । नित्यत्वाडिलोपात् प्राक्सम्प्रसारणमन्तरङ्गत्वात्पूर्वरूपम् । टिलोपः । विदयतीति परे” इत्युक्तम् । 'उदच उदीच्' (२।१।१०३) 'अञ्च प्राग् दीर्घश्च' (२।१।१०४) इति यो णिक्यवर्जनात् उदश्चमाचष्टेऽन्त्यस्वरादिलोपे उदयति । उ उदा. यियत् । प्रत्यञ्चं प्रताययति अप्रतायियत् । 'सहसमोः सध्रिसमी' सम्यञ्चमाचष्टे समाययति ।१० अससमायत् । 'तिरसस्तियति' तिराययति । अञ्चेष्टिलोपेनापहारेपि बहिरङ्गत्वेनासिद्धत्वात् तिरसस्तिरिः । ङे अतितिरायत् । सध्यञ्चं सध्राययति । अससध्रायत् । विष्वग्यश्चमाचष्टे विष्वग् द्राययति । अविविष्वग्द्रायत् । देवद्यञ्चं देवद्रायति । अदिदेवद्रायत् । अयचं अदद्राययति । आदद्रायत् । अमुव्यश्चममुद्राययति । आमुमुद्रायत् । भुवं भावयति अबीभवत् । ध्रुवं अबुभ्रवत् । श्रियं श्रीमती श्रीमन्तं वाचष्टे श्राययति । अशिश्रायत् । गां अजूगवत् । रायं अरीरवत् । नावं १५ अनूनवत् । स्वश्वं स्वश्वयति असस्वश्वत् इत्यादि । कौमुद्यां तु 'उदश्चमाचष्टे उदीचयति उदैचिचत् । प्रत्यञ्चं-प्रतीचयति इकोऽसवर्ण इति प्रकृतिभावपक्षे-प्रति-अचिचत्। सम्यञ्चमाचष्टे समीचयति। सम्यचिचत् । समि अचिचत्' इत्यायुक्तमिति ज्ञेयम् । 'अल्पयूनोः कन्वा' (७।४।३३) अल्पं युवानं वाचष्टे कनयति पक्षे अल्पयति यवयति । प्रशस्यमाचष्टे करोति वा श्रयति 'प्रशस्यस्य श्रः' (७४।३४) वृद्धमाचष्टे ज्ययति । 'वृद्धस्य च ज्यः' (७॥४॥३५)। बाढं साधयति । अन्तिकं नेदयति । 'बाढान्तिकयोः२० साधनेदौ, (७।४।३७) बहुमाचष्टे करोति वा भूययति । 'बहोर्णीष्ठे भूय' (७४।४०) चिरमाचष्टे चिरं करोति चिरयति । वृक्षमाचष्टे रोपयति वा वृक्षयति । कृतं गृह्णाति कृतयति । एवं वर्णयति । त्वां मां वाचष्टे त्वदयति मदयति । अत्र नित्यत्वादन्यस्वरादिलोपात् प्रागेव अदं विश्लेष्य त्वमादेशौ पश्चादप्यन्त्यस्वरादिलोपो 'न लोपात् स्वरादेश' इति न्याया'लुगस्यादेत्यपदे' इत्येव प्रवर्त्तते । ततश्च नैकवरस्येति निषेधात् 'मिणति' इति वृद्धिरपि न अधातुत्वात् । युवां युष्मान्वाचष्टे युष्म यति अस्मयति । त्वचं २५ गृह्णाति त्वचयति । त्वचशब्दोऽदन्तस्त्वपर्यायः । व्यञ्जनान्तस्य तु 'रिणति' इति वृद्धौ त्वाचयति इति रूपं स्यात्तच्चानिष्टमिति न कृतम् । अत्र व्यञ्जनान्तं त्वक्शब्दं परित्यज्य स्वरान्तपाठेन ज्ञाप्यते; नानोऽप्यतोऽन्त्यस्योपान्त्यस्य अतो 'ब्णिति' इति सूत्रेण वृद्धिर्भवतीति उत्पलमतं स्वस्यापि कचित्संमतमस्तीति । यथा त्वां मां वाचष्टे अत्र परत्वात्पूर्वमन्त्यस्वरादिलोपे त्वमादेशेऽन्त्यस्याकारस्य वृद्धौ प्वागमे त्वापयति । मापयतीति । ननु कथं कारापयति वन्दापयति कथापयति लिखापय-३० तीत्यादि । उच्यते । महाकविप्रयुक्ता एते प्रयोगाः कापि न दृश्यन्ते । यदि च कचन सन्ति तदेवं समर्थनीयाः । करणं कारस्तमनुयुङ्क्ते त्वं कुरुषे चेति प्रेरयतीत्यर्थः । उत्पलमतेन अतो णिति' इति वृद्धौ प्वागमे भृत्येन कारापयतीत्यादि । रूपं दर्शयति रूपयति । रूपं निध्यापयति निरूपयति । लोमान्यनुमाष्टिं अनुलोमयति । तूस्तानि विहन्ति उद्वन्ति वा वितूस्तयति उत्तुस्तयति केशान् विजटीकरोतीत्यर्थः । तूस्तं केश इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे। इति कौमुद्याम् । ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org