________________
८१४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमुण्डं करोति मुण्डयतीत्यादि । लघु करोति लघयति । एवं छिद्रयति कर्णयति दण्डयति अङ्कयति अन्धयति । व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति । अत्र सापेक्षत्वेऽपि गणपाठाणिज् इष्यते । द्वारस्य उद्घाटं करोति द्वारमुद्घाटयति । ननु व्याकरणशब्दाद्वाक्ये षष्ठी दृश्यते उत्पन्ने च प्रत्यये कथं द्वितीया । उच्यते । योऽसौ सूत्रव्याकरणयोः सम्बन्धः स उत्पन्ने प्रत्यये ५ निवर्तते । सूत्रयति क्रियासम्बन्धात्तु द्वितीया । “सम्प्रोन्नेः सङ्कीर्णप्रकाशाधिकसमीपे” (७१। १२५) इति प्रात् प्रकाशेऽर्थे कटप्रत्यये प्रकटस्तं करोति प्रकटयति । स्वाभिप्राय प्रमाणयति । साक्षिणं कुतीर्थयति । पर्यन्तयति कृत्यम् । चिह्नयति दृष्टचरम् । संवर्गयति बन्धून् । खट्वयति दारुमिति । पाप्मिनामुल्लापं करोति पाप्मिनमुल्लाघयति । त्रिलोकीं तिलकयतीत्यायपि द्रष्टव्यम् । अथ
तपः करोति तपस्यतीत्यादिवत्कर्मणो वृत्तावन्तर्भूतत्वान्मुण्डिरकर्मकः प्राप्नोति । नैवं सामान्यकर्मान्त१० भूतं विशेषकर्मणा तु सकर्मक एव, मुण्डयति कं छात्रमिति । यद्येवं पुत्रीयतिरपि विशेषकर्मणा
सकर्मकः प्राप्नोति पुत्रीयति कं छात्रमिति । सत्यम्, आचारक्यना तु बुद्धेरपहृतत्वादिच्छाक्यनन्तस्य विद्यमानमपि विशेषकर्म न प्रयुज्यते । पुत्रीयति छात्रमित्युक्ते पुत्रमिवाचरति छात्रमिति प्रतीतिर्भवति न तु पुत्रमिच्छतीति । तदुक्तम्-सदपीच्छाक्यनः कर्म तदाचारक्यना हृतं । कौटिल्येनैव गत्यर्थाभ्यासो वृत्तौ न गम्यते ॥ १॥ यथा जङ्गम्यते इत्यादौ यद्यपि भृशमभीक्ष्णं वा कुटिलं गच्छति । १५ तथापि कुटिलं गच्छतीत्येव प्रतीयते न तु भृशाभीक्ष्ण्यमिति । मुण्डं बलीव करोतीत्युभयधर्मविधाने
मुण्डं शुक्लं करोति इत्यनुवादे वाऽनभिधानान्न भवति । पटुमाचष्टे करोति वा 'नामिनोऽकलि.' (४१३५१) इति वृद्धावन्त्यस्वरलोपे पटयति । पट्वीमाचष्टे करोति वा 'जातिश्च णी'ति पुंवत्त्वे वृद्धावन्यस्वरलोपे च पटयति । एवं च लघु लघ्वीं वा लघयति । एनीमाचष्टे एतयति । श्येनीमाचष्टे श्येतयति । दरदमाचष्टे दारदयति । एवं सुखिनमाचष्टे करोति वा सुखयति । दुःखिनं दुःखयति । २० कुशलयति । वार्त्तयति । एवं प्रियमाचष्टे करोति वा प्रापयति । स्थिरं स्थापयति । स्फिरं स्फारयति ।
ऊरं वरयति । गुरुं गरयति । बहुलं बंहयति । त्रपं त्रपयति । दीर्घ द्राघयति । वृद्धं वर्षयति । वृन्दारकं वृन्दयति 'प्रियस्थिरस्फिरोरुगुरूबहुलदीर्घतृप्रवृद्धवृन्दारकस्येमनि च प्रास्थास्फागरवरबहत्रपद्राघवर्षवृन्दम्' (७४।६८) इत्यनेन णिजि प्रियादीनां दशानां प्राद्या दशादेशा यथासक्यं स्युरिति ।
एवं 'पृथुमृदुभृशशहढपरिवृढस्य ऋतो रः' (७।४।३९) पृथु पृथ्वी आचष्टे करोति वा प्रथयति । २५ मुदुं मृद्वी म्रदयति । भृशं भृशां कृशं कृशां दृढं दृढां परिवृढं परिवृढां आचष्टे करोति वा अनेन रत्वे 'जातिश्च णि.' (३।२।५१) इति पुंवद्भावे प्रथयति । म्रदयति । भ्रशयति । क्रशयति । द्रढयति । द्रढयित्वा । परिहढय्य गतः। परिवढयति । अपिप्रथत् अपप्रथत् । अमिम्रदत् अमम्रदत् । अबभ्रशत् । अचक्रशत् । अदद्रढत् । पर्यवबढत् । 'स्थूलदूरयुवह्ववक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः' (७।४।४२) स्थूलमाचष्टे करोति वा स्थवयति । दूर दवयति । कथं तर्हि 'दूरयत्यवनते विवस्वती'ति । ३० दूरमततीति दूरात्, दूरातं कुर्वतीत्यर्थः । युवानं यवयति । ह्रस्वं ह्रसयति । क्षिप्रं क्षेपयति । क्षुद्रं
क्षोदयति । स्रग्विणमाचष्टे करोति स्रजयति । एवं ओजस्विनं ओजयति । गोमन्तं गवयति । त्वग्वन्तं त्वचयति । कुमुदन्तं कुमुदयति । अत्र विन्मतोर्णीष्ठेयसौ लुपिति विन्मतोलृप् । कर्तृमन्तमाचष्टे करयति । कर्तारमाचष्टे करयति । पयस्विनी पयस्विनं वा पययति । वसुमन्तं वसयति । एषु पूर्वेण विन्मतोलपि पश्चात् 'यन्त्यखरादेः' (७४।४३) इति त्रिशब्दस्यान्त्यस्वरस्य च लुक् । एवं ३५सामन्तं करोति सङ्कामयति । मातरं भ्रातरं वाचष्टे मातयति । भ्रातयतीत्यत्र त्वव्युत्पन्नस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org