________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे नामधातुप्रक्रिया (३।४।४१) चीवरात्कर्मणः परिधाने अर्जने चार्थे णिङ् वा स्यात् । चीवरं परिधत्ते परिचीवरयते समाच्छादनमपि परिधानम् , चीवर समाच्छादयति संचीवरयते । चीवरमर्जयति चीवरयते । संमाजनेऽप्यन्ये । चीवरं संमार्जयति संचीवरयते ॥ ११ ॥ क्यन्प्रत्यये विशेषमाह । सूत्रम्
क्षुत्तुड्गद्देऽशनायोदन्यधनायम् ॥ १२॥ [सि० ४।३।११३ ] एष्वर्थेषु यथासङ्ख्यमशनायादयः क्यमन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति ॥ १२॥
'क्षुत्तृ०' एष्वर्थेष्विति । अयं भावः । क्षुधि गम्यमानायामशनशब्दस्य आत्वम् । तृषि गम्यायामुदकशब्दस्य उदन् इत्यादेशः । गर्दै गम्यमाने धनशब्दस्य आत्वं क्यनि परे निपात्यते । क्षुधितोऽशनमिच्छति अशनायति । तृषित उदकमिच्छति उदन्यति । गृद्धो धनमिच्छति धनायति । क्षुत्तुड्गर्द्ध इति किम् ? अशनीयति उदकीयति धनीयति दानाय ॥ १२ ॥
__वृषाश्वान्मैथुने स्सोऽन्तः ॥ १३ ॥ [ सि० ४।३।११४ ] आभ्यां मैथुनाभ्यां क्यनि स्सोऽन्तः स्यात् । वृषस्यति गौः । अश्वस्यति वडवा ॥ १३ ॥ 'वृषा.' वृषस्यति अश्वस्यतीति वृषाश्वशब्दावत्र मैथुने वर्तते । मनुष्यादावपि हि प्रयुज्यते मैथुनेच्छापर्यायौ वृषस्य अश्वस्येति । 'सा क्षीरकण्ठकं वत्सं वृषस्यन्ती न लज्जिता' शुनी गौश्च स्वं स्वमश्वस्यति 'लक्ष्मणं सा वृषस्यन्ती महोक्षं गौरिवागमत् । 'वृषस्यन्ती कामुकी स्यादि'त्यभिधानचि-१५ तामणौ । मैथुन इति किम् ? वृषीयति अश्वीयति ब्राह्मणी । स्स इति द्विःसकारनिर्देशो दधिस्यतीत्यादौ षत्वनिषेधार्थः ॥ १३ ॥ .
अस् च लौल्ये ॥ १४ ॥ [सि० ४।३।११५] भोगेच्छातिरेको लौल्यं तत्र गम्ये क्यनि परे नाम्नः स्सोऽस् चान्तः स्यात् । द्विःसकारपाठान्नास्य षत्वम् । दधिस्यति दध्यस्यति ॥ १४ ॥
'असू०' दध्यस्यतीति । एवं मधुस्यति मध्वस्यति । क्षीरस्यति लवणस्यति । अविधानमनकारान्तार्थम् अकारान्तेषु हि 'लुगस्यादेत्यपदे' (२।१।११३) इति लुकि (सति ) विशेषो नास्ति । अन्यस्तु लुकममृध्यमाणः क्षीरास्यतीत्यादि मन्यते, तच्च न बहुसम्मतम् । लौल्य इति किम् ? क्षीरीयति दानाय ॥ १४ ॥
___ *अथ प्रागुद्दिष्टो णिज्प्रत्ययो विधीयते । सूत्रम् -
णिज् बहुलं नाम्नः कृगादिषु ॥ १५॥ [सि० ३।४।४२] ___ कुगादीनां धातूनामर्थे नाम्नो णिज् बहुलं स्यात् । अन्त्यस्वरादेरित्यन्त्यवरादिलुकि मुण्डं करोति मुण्डयति छात्रम् । पटुमाचष्टे पटयति । वृक्षं रोपयति वृक्षयति । कृतं गृह्णाति कृतयति ॥ १५ ॥
"णिज्०' बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन यस्मान्नानो यद् विभक्त्यन्ताद्यस्मिन् धात्वर्थे ३० दृश्यते । तस्मात्तद्विभक्त्यन्तात्तद्धात्वर्थे एव भवतीति नियमः सिद्धः । मुण्डयति छात्रमिति । एवं मिश्रयत्योदनम् । श्लक्ष्णयति वस्त्रम् । लवणयति रूपम् । एभ्यश्व्यर्थ एवेति कश्चित् । अमुण्डं ३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org