________________
८१२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु(३।४।३५) शब्दादिभ्यः कर्मभ्यः करोत्यर्थे क्यङ् वा स्यात् । णिजपवादः । शब्दं करोति शब्दायते । वैरायते कलहायते । वाशब्दो व्यवस्थितविभाषार्थः । तेन यथादर्शनं णिजपि भवति शब्दयति वैरयति । वाधिकारस्तु वाक्यार्थः । शब्द वैर कलह ओघ वेग युद्ध अभ्र कण्व मम मेघ अटा
अट्या अटाट्या सीका सोटा कोटा पोटा प्लष्ट्वा सुदिन दुर्दिन नीहार इत्येकविंशतिकः शब्दादि५गणः । तत्र कण्वं पापम् । सीका सीत्कारः । सोटा स्त्री । पोटा तु स्त्रीलक्षणा । प्लुषू दाहे वनि प्लुष्वा इति विशेषार्थसहितः क्यङ्प्रत्ययः ॥ ९ ॥ अथ कर्मणः करोत्यर्थे क्यन्प्रत्ययमाह । सूत्रम्
तपसः क्यन् ॥ १०॥ [सि० ३।४।३६] . अस्सात्कर्मणः कृतावर्थे क्यन् वा स्यात् । तपः करोति तपस्यति ॥ १०॥ १० 'तप०' अत्र यदा व्रतपर्यायस्तपःशब्दस्तदा क्यन्कर्मणो वृत्तावन्तर्भूतत्वादकर्मकत्वम् । यदा
तु सन्तापवचनस्तदा तु कर्मणो वृत्तावन्तर्भावेऽपि स्वकर्मणा सकर्मक एव । शत्रूणां तपः करोति तपस्यति शत्रूनिति । यथा व्याकरणसूत्रं करोति व्याकरणं सूत्रयति ॥ १० ॥
नमोवरिवश्चित्रोऽर्चासेवाश्चर्ये ॥ ११॥ [सि० ३।४।३७] एभ्यः कर्मभ्यो यथासङ्ख्यमर्चादिष्वर्थेषु क्यन् वा स्यात् । नमस्सति । वरिवस्यति १५चित्रीयते ॥ ११॥
'नमो०' देवेभ्यः नमः करोति नमस्यति देवान् । सेवार्थे वरिवस्शब्दः । वृणीते 'स्वरेभ्य इ.' (६०६) इति इप्रत्यये वरिः सेवकस्तत्र वसतीति वरिवः सेवा । गुरूणां वरिवः करोति वरिवस्पति गुरून् । चित्रं आश्चर्यं करोति चित्रीयते । कस्येत्यविवक्षितेऽकर्मकत्वम् , जनस्येति विवक्षायां चित्रीयते जनमिति प्राग्वद्भवति 'चित्रीयते विस्मयते इत्यर्थः । विस्मापयते इत्यन्ये' इति कौमुद्याम् । २० डकार आत्मनेपदार्थः, अवयवे कृतं लिङ्गं समुदायस्यापि विशेषकं भवतीति । अर्चादिष्विति किम् ।
नमः करोति । वरिवः करोति । नमोवरिवःशब्दमुच्चारयतीत्यर्थः । चित्रं करोति नानात्वमालेख्यं वा करोतीत्यर्थः । ननु नमस्यति देवानित्यत्र नमःशब्दसंयोगनिबन्धना चतुर्थी कस्मान्न भवति । उच्यते । नामधातूनामविवक्षितप्रकृतिप्रत्ययभेदानां धातुत्वानर्थकोऽत्र नमःशब्दः, उपपदविभक्ते
कारकविभक्तिर्बलीयसीति । एवं च नमस्करोति देवानिति वाक्येऽपि द्वितीया सिद्धा । यद्येवं २५ नमस्करोति देवेभ्य इति न भवितव्यम् । नैवम् करोतेर्नमःशब्दसम्बन्धेन देवपदेनाऽसम्बन्धात् , कस्मै इति त्वाकाङ्क्षायां देवेभ्य इति सम्बन्धात् , चतुर्थी सम्प्रदाने वेत्यदोष इति । अथात्र इत्यादिशब्दानुवृत्तेरिमे विशेषा ज्ञेयाः । 'अङ्गन्निरसने णि' (३।४।३८) अङ्गवाचिनः शब्दात्कर्मणा निरसनेऽर्थे णि वा स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ग्रीवयते । निरसन इति किम् ? हस्तौ करोति हस्तयति । कर्मण इति किम् ? हस्तेन निरस्यति । ङकार आत्मनेपदार्थः । 'पुच्छादुत्परि३० व्यसने' (३।४।३९) पुच्छशब्दात्कर्मण उदसने पर्यसने व्यसने असने चार्थे णिङ् स्यात् ।
पुच्छमुदस्यति उत्पुच्छ्यते । पर्यस्यति परिपुच्छ्यते । व्यस्यति विपुच्च्यते । अस्यति पुच्च्यते । 'भाण्डात्समाचितौ' (३।४।४०) भाण्डात्कर्मणः समाचयनेऽर्थे णिङ् वा स्यात् । समाचयनं ३३ समा परिणा च द्योत्यते । भाण्डानि समाचिनोति सम्भाण्डयते । 'चीवरात्परिधानार्जने'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org