________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे नामधातुप्रक्रिया
अथात्र विशेषमाह । सूत्रम्
डाच् लोहितादिभ्यः षित् ॥ ८ ॥ [ सि० ३ | ४ | ३० ]
एभ्यः कर्तृभ्य व्यर्थे षित् क्यङ् स्यात् ॥ ८ ॥
'डाच्०' स्पष्टम् । एभ्य इति डाच्प्रत्ययान्तेभ्यो लोहितादिभ्यश्चेत्यर्थः ॥ ८ ॥ अत्रोपयोगि सूत्रम् ।
क्यो नवा ॥ ९ ॥ [ सि० ३।३।४३ ] क्यषन्तादात्मनेपदं वा स्यात् । पटपटायति - पटपटायते इत्यादि ॥ ९ ॥
Jain Education International
८११
1
'क्यङ्क्षो ० ' स्पष्टम् । पटपटायते इति । अपटत् पटत् भवति पटपटायति पटपटायते । अत्र 'अव्यक्तानुकरणादनेकस्वरात् कृभ्वस्तिना अनितौ द्विश्व' इति डाच् द्वित्वम् । 'डाच्यादौ' (७/२।१० १४९) इति पूर्वपद सम्बन्धिनस्तकारस्य लुक् च । एवं दमदमा घटघटा झटझटा मदमदा छमछमा कमकमा बणबणा फरफरा इत्यादयः । डाजन्तात् क्यविधानात् कृभ्वस्तिभिरिव क्यङ्क्षापि योगे डाज् भवति । अलोहितो लोहितो भवति लोहितायति लोहितायते । लोहित जिा श्याम धूम चर्मन् हर्ष गर्व सुख दुःख मूर्च्छा निद्रा कृपा करुणा इति त्रयोदशको लोहितादिगणः । बहुवचनमाकृतिगणार्थम् । तेन अमृतं यस्य विषायतीति सिद्धम्, अविषं विषं भवतीत्यर्थाद्विषस्यायस्तद्वदाचरतीति वा । १५ तथा लम्ब शोभा लीला शब्द विभ्रमादयोपि ज्ञेयाः । तत्र शोभादयस्तद्वति वर्त्तमाना अवगन्तव्यास्तेन लम्बायमानं शोभायमानमित्यादि सिद्धम् । लोहितादिषु लोहितादेवेच्छन्त्यन्ये । षकारः 'क्यो नवा' इत्यत्र विशेषणार्थः । धूमादीनां दशानां स्वतन्त्रार्थवृत्तीनां प्रकृतिविकारभावाप्रतीतेव्यर्थो नास्तीति तद्वद्वृत्तिभ्यः प्रत्ययो भवति । अधूमवान् धूमवान् भवति धूमायति धूमायते । इति क्यङ्क्षप्रत्ययः अत्र इत्यादि शब्दनिर्देशात् 'कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे' (३।४।२० ३१ ) एभ्यः पञ्चभ्यो निर्देशादेव चतुर्थ्यन्तेभ्यः पापे वर्त्तमानेभ्यः क्रमणेऽर्थे क्यङ् स्यात् । कष्टाय कर्मणे क्रामति कष्टायते । एवं कक्षायते कृच्छ्रायते सत्रायते गहनायते । एभ्य इति किम् ? कुटिलाय कर्मणे क्रामति । चतुर्थीनिर्देशः किम् ? रिपुः कष्टं क्रामति । पाप इति किम् ? कष्टाय तपसे क्रामति । क्रमणमत्र न पादविक्षेपः किन्तु प्रवृत्तिमात्रम् । द्वितीयान्तेभ्यः पापचिकीर्षायामित्यन्ये । कष्टं चिकीर्षति कष्टायते । 'रोमन्धाद्वयाप्यादुच्चर्वणे' ( ३।४।१२ ) क्यङ् स्यात् । अभ्यवहृतं द्रव्यं रोमन्थः २५ उद्गीर्य चवणं उच्चर्वणं । रोमन्थमुच्चर्वयति रोमन्थायते गौः उद्गीर्य चर्वयतीत्यर्थः । उच्चर्वण इति किम् ? कीटो रोमन्थं वर्त्तयति उद्गीर्य बहिस्त्यक्तं द्रव्यं पृष्ठान्तेन निर्गतं वा द्रव्यं गुटिकां करोतीत्यर्थः । 'फेनोष्मबाष्पधूमादुद्वमने' ( ३।४।३३ ) एभ्यश्चतुर्भ्यः कर्मभ्य उद्वमनेऽर्थे क्यङ् स्यात् । फेनमुद्रमति फेनायते । एवमूष्मायते बाष्पायते धूमायते । 'सुखादेरनुभवे' ( ३।४।३४ ) साक्षात्कारोऽनुभवस्तस्मिन्नर्थे सुखादिभ्यः कर्मभ्यः क्यङ् वा स्यात् । सुखमनुभवति सुखायते । ३० अनुभव इति किम् ? सुखं वेदयते प्रसाधकश्चैत्रस्य मुखादिविकारेणानुमानेन निश्चिनोतीत्यर्थः । सुख दुःख तृप्र कृच्छू अस्र आत्र अलीक करण कृपण सोढ प्रतीप इत्येकादशकः सुखादिगणः । अत्र तृप्रं दुःखम् । अस्रमश्रुरुधिरं वा । अत्रमेवात्रं स्वार्थेऽण् । कृपणं दैन्यम् । 'शब्दादेः कृतौ वा' ३३
For Personal & Private Use Only
लोहितायति लोहितायते
www.jainelibrary.org