________________
८१०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुघृतवर्णा वा । रोहिणी रक्ता' इति क्रियारत्नसमुच्चये । एवं पट्वीव पटूयते । कुमारीव कुमारायते । गुरूव गुरूयते । सपत्नीव सपत्नायते । युवतिरिव युवायते । तरुणीव तरुणायते । पट्वीमृद्ध्या विव पट्वीमृदूयते । 'तद्धिताककोपान्त्यपूरणाख्याः ' ( ३।२।५४ ) इति पुंवद्भावनिषेधे धार्मिकायते । एकिकायते । पाचिकायते । कारिकायते । चतुर्थीयते । पञ्चमीयते । एकादशीयते 'तद्धितः स्वरवृद्धिहेतुर५रक्तविकारे' (३।२।५५) इति पुंवत्त्वाभावे माहेश्वरीयते । सौगतीयते । रक्तविकारे तु स्यात् । कौडमीव कौकुमायते । 'स्वाङ्गाडीर्जातिश्चामानिनि' ( ३।२।५६) इति पुंवद्भावनिषेधेषु गात्रीयते वानरीयते ब्राह्मणीयते । भावकर्मणोः पुरुषायते कुटिलाभिः । राजायते विद्वद्भिः । हस्तन्यां उत्सुक इवाचरत् औत्सुकायत ४ । अद्यतन्यां औत्सुकाविष्ट । दृषदिवाचारीत् अदृषदिष्ट अदृषधिष्ट । अत्र 'क्यो वा' (४।३।८१) इति क्यङो वा लुक् । भावकर्मणोः अदृषदि अदृषधि ५ । कयिवाचचार १० कायाञ्चकार । अत्र क्यनः सस्वरत्वेनाम् सिद्धः। ६ । दृषदिषीष्ट दृषधिषीष्ट ७ स्वरान्तात्तु क्यङो
न लुक् पटायिता ८ । दृषदिष्यते दृषद्यिष्यते ९ । अदृषदिष्यत अदृषधिष्यत १० । सनि पुपुरुषायिषते पुरुरूषायिषते । उत्सुकायिषते । उत्सुकायितः २ । उत्सुकायित्वा उत्सुकायितुम् । उत्सुकायिता। उत्सुकायितव्यम् ॥ ६ ॥ अत्रोपयोगि सूत्रम् ।
नं क्ये ॥७॥ [सि० १।१२२] १५ नान्तं नाम क्ये परे पदं न स्यात् । राजीयति राजायते । य्यक्ये इत्ययादेशे गव्यति गव्यते ॥ ७॥
'नं क्ये' अत्र क्ये इति क्यन्क्यङोर्ग्रहणम् । तत्र राजीयतीति क्यन उदाहरणं । राजायते इति क्यङ इति । अत्रादिशब्दसंसर्गात् अयं विशेषोऽवधेयः । 'व्यर्थे भृशादेः स्तोः' (३।४।२९)
भृशादिभ्यः कर्तृभ्यः व्यर्थे क्यङ् वा स्यात् । सकारतकारयोर्यथासम्भवं लुक् च । व्यर्थे इत्यनेन २० लक्षणया भवत्यर्थविशिष्टमतत्तत्त्वमुच्यते । करोतिस्तु कर्तुरित्यनेन व्युदस्तः, भवत्यर्थे च विधानात् क्यङन्तस्य क्रियार्थत्वम् ; भवत्यर्थशब्दाप्रयोगश्च । अभृशो भृशो भवति भृशायते । अस्त्यर्थोऽपि भवत्यर्थ एवेति । अभृशो भृशः स्यात् भृशायते । एवं उन्मनायते वेहायते । अनोजवी ओजस्वी भवति ओजायते । अत्र तद्वद्वत्तेरेव च्व्यर्थ इति धर्मप्रवृत्तेर्न भवति; अनोज ओजो भवति । कर्तुरित्येव भृशं करोति । च्च्यर्थ इति किम् ? भृशो भवति । प्रागतत्तत्त्वमात्रे च्वेर्विधानात् क्यङा च्वि२५न बाध्यते । भृशीभवति । अर्थभेदात् अनेन क्यङ् । आचारक्यङपि न बाध्यते भृश इवाचरति
भृशायते । एवं अनभिमना अभिमना भवति अभिमनायते ३ । अभ्यमनायत ४ । अभ्यमनायिष्ट ५ । अभिमनायाञ्चक्रे ६ । अभिमनायिषीष्ट ७ । अभिमनायिता ८ । अभिमनायिष्यते ९ । अभ्यमनायिष्यत १० । सनि अभिमिमनायिषते अभिमनिनायिषति । अभिमनायियिषते । णौ अभिमनाययति । डे अभ्यममनायत् । अभ्यमनानायत् । अभ्यमनायियत् अत्र विषयेऽप्यल्लोपात्परनिमित्त३० कत्वाभावेनाल्लकः स्थानित्वाभावात् यि इत्यस्य द्वित्वम् । क्त्वि अभिमनाय्य गतः । भृश उत्सुक
शीघ्र चपल पण्डित आण्डर कण्डर फेन शुचि नील हरित मन्द मद्र भद्र शश्वत् संश्चत् तृपत् रेफत् रेहत् वेहत् वर्चस् ओजस् (बृहद्वृत्तौ न) उन्मनस सुमनस् दुर्मनस् अभिमनस् । इति पञ्चविंश३३तिको भृशादिगणः । इति व्यर्थक्य ॥ ७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org