________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे नामधातुप्रक्रिया
८०९ चरति काकः श्येनायते । तन्मतसंग्रहार्थं कर्तुरिति षष्ठी व्याख्येया। द्वितीयाया इति चानुवर्तनीयम् । एवं अ इवाचरति अति अतः अन्ति । परोक्षायां द्वित्वे दीर्थे 'आतो णव औः' (४।२।१२०) इत्यौत्वे अनु आति 'इडेत्पुसि चातो लुक्' (४।३।९४) इत्यालुकि अतुः उः इति । एवं क इव कति । स्व इव स्वति । परोक्षायां कक सख । मतान्तरे काञ्चकार स्वाञ्चकार । कविरिव कवयति । अकवायीत्-अकवयीत् । पितेव पितरति । आशिषि पित्रीयात् । भूरिव भवति । अत्र 'पिबैतिदा०५ (४।३।६६) इति सिज्लोपो 'भुवो वः परोक्षाद्यन्योरि'त्यादि न भवति । तत्र धातुपाठस्थस्यैव ग्रहणात् अभावीत् । बुभाव । द्वरिव द्रवति । णिश्रिद्रुस्तु इति डो न भवति । अद्रावीत् ।
> इति, किप्प्रत्ययः। अथ क्यङ्प्रत्यय उच्यते सूत्रम् ।
क्यङ् ॥ ६॥ [सि० ३।४२६] कर्तरुपमानादाचारे क्यङ् वा स्यात् । दीर्घश्वीति दीर्घे, हंसायते ४ । अहंसायीत ५। हंसायाञ्चके ६ । हंसायिषीष्ट ७ । 'सो वा लुक् च' (३।४।२७) क्यङि । पयायते पयस्यते । 'ओजोप्सरस' (३।४।२८) नित्यं सलुक् ओजायते । अप्सरायते । 'ऋतो री' (४।३।१०९)। मात्रीयते । क्यङ्मानिपित्तद्धिते इति पुंवद्भावे श्येनीवाचरतीति श्येतायते काकः ॥६॥
'क्यडू' हंसायते इत्यादि स्पष्टम् । पुरुष इवाचरति पुरुषायते स्त्री । सन्ध्यायतेऽलक्तः । गार्य १५ इवाचरति गार्गीयते । वात्सायते । अत्रा'ऽऽपत्यस्य क्यच्च्योः ' इति यलोपः । चिन्तामणीयते । ग्रामणीयते । प्रभूयते सेवकः । विधूयते पित्रीयते रैयते गव्यते नाव्यते दधृष्यते मित्रद्रुह्यते मरुत्यते जलमुच्यते सम्राज्यते तद्यते यद्यते एतद्यते इदम्यते किम्यते भवत्यते, त्वद्यते सुतस्ते । मद्यते मद्धृत्यः । युष्मद्यते अस्मद्यते । एवं गल्भायते । क्लीबायते । होडायते । 'उदच उदीच्' (२।१।१०३) 'अच्च प्राग् दीर्घश्च' (२।१।१०४) इति सूत्रयोर्णिक्यवर्जनात् उदडिवाचरति उदच्यते प्रत्यच्यते । एवमु-२० दश्चमिच्छति उदच्यति प्रत्यच्यति । विपक्यङोस्तुल्यविषयत्वादसत्युत्सर्गापवादत्वे पर्यायेण प्रयोगः । ककारः सामान्यग्रहणार्थः । डकार आत्मनेपदार्थः । अत्र विशेषमाह 'सो' (३।४।२७) अत्र स इत्यावृत्त्या पञ्चम्यन्तं षष्ठ्यन्तं चाभिसम्बन्ध्यते । सकारान्तात्क रुपमानादाचारेऽर्थे क्यङ् वा स्यात् । अन्त्यसकारस्य च लुग्वा स्यात् । पय इवाचरति पयायते पयस्यते । सरायते सरस्यते । चन्द्रमायते चन्द्रमस्यते । विद्वायते विद्वस्यते । अन्ये त्वप्सरस एव सलोपो नान्यस्य तेन अप्सरायते । अन्यत्र २५ पयस्यते इत्याद्यवेत्याहुः । क्यसिद्धौ लुगथं वचनम् । चकारो लुचः क्यङ्सन्नियोगार्थः। अत्रैव विशेषमाह सूत्रम् 'ओजो' (३।४।२८) ओजःशब्दो वृत्तिविषये स्वभावात्तद्वति वर्त्तते । ओजःशब्दादप्सरःशब्दाच कर्तरुपमानभूतादाचारेऽर्थे क्यङ् वा सलोपश्च । ओजस्वीवाचरति ओजायते । अप्सरायते । अन्ये त्वोजःशब्दे शलोपविकल्पमिच्छन्ति । ओजायते ओजस्यते । अथात्र कार्यविशेषमाह 'ऋतो री:' (४।३।१०९) इत्यादि स्पष्टम् । श्येतायते इति । श्येतेति सूत्रोक्तानां ३० डयन्तानां तो नत्वसिद्धानां श्येनीप्रभृतीनां 'क्यङ्मानि०' (३।२।५०) इति कृतपुंवद्भावानां रूपाणि । श्येनीवाचरति श्येतायते । एनीव एतायते । हरिणीव हरितायते । भरणीव भरतायते । रोहिणीव रोहितायते । तत्र 'श्येनी शुभ्रा । एनी कर्बुरा शुभ्रा वा । हरिणी नीला । भरणी पाटला धूसरा ३३
है. प्रका० उत्त० १०२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org