________________
८०८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
'कर्तु०' कर्तुः उपमानादिति । कर्तृभूतं यदुपमाननाम तस्मादिति सामानाधिकरण्येन कर्तुरित्यत्र पञ्चमी व्याख्येया। अत्रैव सूत्रे मतांतरे षष्ठीव्याख्यानस्याभिधास्यमानत्वात् । तथाहुः सूरयः कर्तुरुपमानान्नाम्न आचारे किप् प्रत्ययो वा भवतीति । सिद्धान्तकौमुद्यामप्युक्तम्-उपमानात्कर्तुः
सुबन्तादाचारे क्यङ् वा स्यादिति । उपमानस्याप्याचरणक्रियायां कर्तृत्वमस्ति । इवस्य क्रियासा५दृश्यार्थकत्वात् यथाश्व आचरति तथाचरति इत्यर्थात् अश्वतीति । एवं दधयति । गौरिवाचरति गवति । नावति । गोरिव नाव इवाचरणं गवा नावा अप्रत्ययः । राजेवाचरति राजनति । मधुलिडेवाचरति मधुलेहति । गोधुगिवाचरति गोदोहति । मालाति सर्पः । अरयति त्राता । नारीवाचरति नारयति पुमान् । रिपवति विधवति बन्धवति भ्रातरति रायति । अस्य विपो व्यञ्जनादित्वकित्त्वपित्त्वफलं नेष्यते । तथाहुः श्रीसूरयः किबिति पूर्वप्रसिद्ध्यनुवाद इति । तेन अरयतीत्या१० दिषु गुणः । 'नाम सिद्' इति पदसंज्ञाभावात् राजनतीत्यादौ नलोपाभावः । अयमिवाचरति
इदमति किमतीत्यादौ 'अहन् पञ्चम०' (४।१।१०७) इति दीर्घाभावश्च । अन्ये तु किपः कित्त्वाद्दीर्घमिच्छन्ति । इदामति कीमति । कम् कामति । शम् शामति । एवं राजानति । पन्था इवाचरति पन्थीनति मथीनति ऋभुक्षीणति । इदमेव मतान्तरमनुसृत्य व्यालः पश्वतीति सिन्दूरप्रकरग्रन्थप्रयोगे गुणाभावः समर्थनीयः । गल्भादिभ्यस्त्विति ङित्त्वादात्मनेपदं १५होड इवाचरति होडते। होडो मूर्ख इति क्रियारत्नसमुच्चये । एवं अवगल्भते विक्लीबते
विहोडते । गल्भाश्चक्रे अवगल्भाञ्चक्रे । यद्यपि 'गल्भि धाष्टर्ये' इत्यादिभिर्गल्भते इत्यादीनि सिद्ध्यन्ति परं गल्भाश्चक्रे इत्यादौ परोक्षाया आम् न सिद्ध्यतीति गल्भादिशब्दग्रहणम् । प्रयोगस्य कर्तृप्रधानत्वेन कर्मविवक्षाभावात् भावे आत्मनेपदं क्यश्च । अश्यते एडकेन 'दीर्घश्वी'ति दीर्घ
अरीयते बन्धुना । विधूयते मुखेन । 'रिः शक्या०' (४।३।११०) इति रत्वे पित्रीयते श्वशुरेण । २० 'य्यक्ये' ( १।२।२५) इति क्यवर्जनादवादेशाभावे गोयते रासभ्या । अत्र 'आत्सन्ध्यक्षरस्य'
(४।२।१) इत्यात्वं न । गव्यतीति क्यनन्तप्रयोगे आत्वादर्शनात् 'नं क्ये' (१।१।२२) इत्यत्र 'क्यः शिति' (३।४।७०) इति क्यस्याग्रहणात्पदान्ताभावान्नस्य लुगभावे राजन्यते भृत्येन । अश्वेत् २ । अश्वतु ३ । आश्वत् ४ । आश्वीत् । 'व्यञ्जनादेर्वोपान्यस्यात:' (४।३।४७) इति वा वृद्धौ अगावीत् अगवीत् । वि: पक्षी स इति वाचारीत् अवावीत् । श्रीरिव श्रयति अश्रायीत् अश्र२५ यीत् अयादेशे वृद्धिः । भावे आश्वि अमालायि अगावि ५। प्राचः पूर्वस्माद्विधिरित्याश्रयणे स्वरस्य
परे इत्यल्लुकः स्थानित्वे 'न धातोरनेक०' (३।४।४६) इत्यामि अश्वाञ्चकार । हंसाञ्चकार । द्वित्वेऽपि च कृते वृद्धौ जुगाव जुगुवतुः । जुगुविम । एवं विवाय विव्यतुः । शिश्राय शिश्रियतुः । कश्चित्तु प्रत्ययान्तादेकस्वरत्वादयामादेशमिच्छति गवाञ्चकार स्वाञ्चकार । भावे अश्वाञ्चके जुगवे ६ ।
अश्यात् गव्यात् राजन्यात् । भावे अश्विषीष्ट ७ । अश्विता ८। अश्विष्यति ९ । आश्विष्यत् १० । ३० सनि श्वेर्द्वित्वे अशिश्विषति । अश्विषिषति । एवं जिहिंसिषति । जुगविषति । अश्वन्तं प्रयुले
अश्वयति डे आशश्वत् । अत्र श्वद्वित्वम् । गावयति । अजूगवत् । उरुरिवाचरतीति विप् लोपे णौ उरावयति । डे औरिरवत् । द्वित्वे कृते पूर्वस्य लधोरिति न दीर्घः । स्वरादित्वात् शतरि अश्वन् । अश्विष्यन् । अश्वित्वा । अश्विता । अश्वितुम् । अश्वितव्यम् । अश्वितः २ । कसौ अशिश्विवान् अशिश्विवांसौ । एवं गवन् गविष्यन् इत्यादि । एके तु कर्तुः स्वसम्बन्धिन उपमानात ३५ द्वितीयान्तात् विपक्याविच्छन्ति । अश्वमिवात्मानमाचरति अश्वति गर्दभः । श्येनमिवात्मानमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org