________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे नामधातुप्रक्रिया
८०७ अतो लुगपवादः क्यलुक् विज्ञायेत । एवं योऽशिति' (४।३।८०) इति सूत्रेऽपि । एवं ह्यस्तन्यां महापुत्रमैच्छत् अमहापुत्रीयत् इन्द्रमैश्वर्यमौषधं वा ऐच्छत् ऐन्द्रीयत् । ऐश्वर्यांयत् औषधीयत् । ओस्राङ्गीमैच्छत् । ओस्रीयत् । विषयमैच्छत् अडागमे सयसितस्येत्यनेन षत्वाप्राप्तौ व्यसयीयत् ४ । अद्यतन्यां क्यो वा लोपे असमिध्यित्-असमिधीत् असमिध्यिष्टाम्-असमिधिष्टाम् ५ । समिध्याश्चकार-समिधाश्चकार । कीयाश्चकारेत्यत्र क्यनः सखरत्वेनाम् सिद्धः ६ । समिध्यात्५ समिध्ययात् ७ । समिध्यिता समिधिता ८ । समिधिष्यति । अत्राल्लुकः स्थानित्वान्न गुणः । समिध्यिष्यति ९ । असमिधिष्यत्-असमिध्यिष्यत् १० । सनि 'अन्यस्ये' (४।११८) इति प्रथमादेर्द्वित्वे पुपुत्रीयिष्यति । पुत्रीयियिषति । एवं सिसमिधिषति समिमिध्यिष्यति । इन्दिद्रियषति । अत्र नकारस्य संयोगादित्वात् 'न बदनं०' (४।११५) इति नस्य न द्वित्वम् । आह्वायकमिच्छति आह्वायकीयति । आह्वाकीयितुमिच्छति आजिह्वायकीयिषति । णिगि पुत्रीययति । समिधयति । समिध्ययति । डे, १० अपुपुत्रीयत् अपुतित्रीयत् अपुत्रीयियत् । अत्र अत इत्यनेन विषयेऽप्यकारलोपात्परनिमित्तत्वाभावात् स्वरस्येति स्थानित्वाभावात् यि इत्यस्य द्वित्वं न तु य इत्यस्य । एवं क्यडादिष्वपि ज्ञेयम् । पुत्रीययाञ्चकारेत्यादि । पुत्रीय्यात् । पुत्रीययिता । पुत्रीययिष्यति । पुत्रीययिष्यन् । पुत्रीयित्वा । पुत्रीयिता । पुत्रीयितुम् । पुत्रीयितः २ ॥ ३ ॥ अत्र विशेषे सूत्रम् ।
__ आधाराच्चोपमानादाचारे ॥ ४॥ [सि० ३।४।२४] मान्ताव्ययवर्जादुपमानाद्वितीयान्तादाधाराच नाम्न आचारे क्यन् वा सात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । प्रासादे इवाचरति प्रासादीयति कुट्याम् ॥ ४ ॥ __'आधारे०' स्पष्टम् । द्वितीयान्तादित्यस्योदाहरणम् । पुत्रीयति छात्रमिति । एवं वस्त्रीयति कम्बलम् । पुत्रीयति स्थूलं दर्शनीयं वा । एके तु कर्तुः स्वसम्बन्धिन उपमानान्तात् द्वितीयान्ता-२० दाचारे विपक्यनाविच्छन्ति तदभिप्रायेण चिन्तामणिमिवात्मानमाचरन् चिन्तामणीयन् तस्मै ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते' इति सिद्धम् । वृत्तावन्तर्भावान कर्मणः पृथक्प्रयोगः । आधाराच्चेति-यथा प्रासादीयति कुट्याम् । एवं पर्यवीयति मञ्चके, खट्वीयति भूमौ । आचरति अवहरतीत्यर्थः । उपमानादिति किम् ? छात्रादेर्मा भूत् । आधाराचेति किम् ? परशुना दात्रेणेवाचरति । उपमानस्य नित्यमुपमेयापेक्षत्वात् सापेक्षत्वेऽप्यसामर्थ्य न भवति । पित्रीयति श्वशुरम् । मात्रीयति २५ परदारान् 'ऋतो री'रिति रीः । शत्रूयति बन्धून् । कर्मण्यात्मनेपदं पुत्रीयते गुरुणा शिष्यः । खजनीयते परः साधुना । सनि तु अशिश्वियीपति वृषभं अश्वीयियिषति अश्वीयिषिषति । क्ये प्रासादीयते । ह्यस्तन्यां प्रासादीयत् । सनि प्रासिसादीयिषति । 'न प्रादिरित्यनेन प्रादेहत्तर एव धातुरिति तस्याडागमो द्विर्वचनं भवतः । सौधीयित्वा प्रासादीय्य गतः । शेषं प्राग्वत् । *"इति क्यन् प्रत्ययः। प्रागुद्दिष्टोऽपि बहुवक्तव्यो णिज् 'सूचीकटाह'न्यायेन पश्चाव्याख्यास्यते इति ३० क्रमप्राप्तं किप्प्रत्ययमाह ॥ ४ ॥ सूत्रम्
कर्तुः क्विप् गल्भक्लीबहोडात्तु ङित् ॥ ५॥ [सि० ३।४।२५] कर्तुः उपमानादाचारेऽर्थे क्विप् वा स्यात् । गल्भादिभ्यस्तु स न ङित् । अश्व इवाचरति अश्वति प्रगल्भते क्लीबते होडते ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org